तां कथां कौशिको रामे निवेद्य मधुराक्षरम् । पुन रेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१॥
अष्टात्रिंशः सर्गः 1.38
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अयोध्याधिपतिर्वीरः पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥२॥
वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥३॥
अरिष्ठनेमिदुहिता सुपर्णभगिनी तु सा । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥४॥
ताभ्यां सह महाराजा पत्नीभ्याम् तप्तवांस्तपः । हिमवंतं समासाद्य भृगुप्रस्रवणे गिरौ ॥५॥
अथ वर्षशते पूर्णे तपसाराधितो मुनिः । सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥६॥
अपत्यलाभः सुमहान् भविष्यति तवानघ । कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥७॥
एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि ह्यपरा जनयिष्यति ॥८॥
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृतांजलिपुटे तदा ॥९॥
एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति । श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१०॥
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः । उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥११॥
एको वंशकरो वास्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥१२॥
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनंदन । पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥१३॥
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा । महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१४॥
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च । जगाम स्वपुरं राजा सभार्या रघुनन्दन ॥१५॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत । असमंज इति ख्यातं केशिनी सगरात्मजम् ॥१६॥
सुमतिस्तु नरव्याघ्र गर्भतुंबं व्यजायत । षष्टिः पुत्रसहस्राणि तुंबभेदाद्विनिःसृताः ॥१७॥
घृतपूर्णेषु कुंभेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१८॥
अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१९॥
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः । बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ॥२०॥
प्रक्षिप्य प्रहसन् नित्यं मज्जतस्तान् निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः ॥२१॥
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान्नाम असमंजस्य वीर्यवान् ॥२२॥
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥२३॥
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता । स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा । यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥२४॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥