विश्वामित्रवचः श्रुत्वा कथान्ते रघुनंदन । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥१॥
एकोनचत्वारिंशः सर्गः 1.39
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥२॥
तस्य तद्वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥३॥
श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम हिमवानिति विश्रुतः ॥४॥
विंध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम ॥५॥
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि| तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥६॥
अंशुमानकरोत्तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥७॥
राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥८॥
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥९॥
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञश्च्छिद्रं भवत्येतत्सर्वेषामशिवाय नः ॥१०॥
तत्तथा क्रियतां राजन् यज्ञोऽच्छिद्रः क्रतुर्भवेत् । सोऽपाध्यायवचः श्रुत्वा तस्मिन्सदसि पार्थिवः ॥११॥
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥१२॥
मंत्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१३॥
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत । एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१४॥
यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम् । तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१५॥
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् । इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ॥१६॥
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयंत्रिताः ॥१७॥
गत्वा तु पृथिवीं सर्वमदृष्टा तं महबलाः । योजनायामविस्तारमेकैको धरणीतलम् । बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः ॥१८॥
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनंदन ॥१९॥
नागानां वध्यमानानामसुराणां च राघव । राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ॥२०॥
योजनानां सहस्राणि षष्टिं तु रघुनंदन । बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥२१॥
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥२२॥
ततो देवाः सगंधर्वाः सासुराः सहपन्नगाः । संभ्रांतमनसः सर्वे पितामहमुपागमन् ॥२३॥
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥२४॥
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः । बहवश्च महात्मानो वध्यन्ते जलचारिणः ॥२५॥
अयं यज्ञ हरोऽस्माकमनेनाश्वोऽपनीयते । इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ॥२६॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥