देवतानां वचः श्रुत्वा भगवान्वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१॥
चत्वारिंशः सर्गः 1.40
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः| महिषी माधवस्यैषा स एव भगवान् प्रभुः ॥२॥
कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥३॥
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥४॥
पितामह वचः श्रुत्वा त्रयस्त्रिंशदरिन्दम । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥५॥
सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः । पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ॥६॥
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् । सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन् ॥७॥
परिक्रांता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥८॥
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥९॥
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद्वाक्यं सगरो रघुनंदन ॥१०॥
भूयः खनत भद्रं वो विभेद्य वसुधातलम् अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥११॥
पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥१२॥
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥१३॥
सपर्वतवनां कृत्स्नां पृथिवीं रघुनंदन । धारयामास शिरसा विरूपाक्षो महागजः ॥१४॥
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकंपस्तदा भवेत् ॥१५॥
ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥१६॥
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥१७॥
महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥१८॥
ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१९॥
पश्चिमायामपि दिशि महांतमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥२०॥
ते तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनंतः समुपक्रांता दिशं सोमवतीं तदा ॥२१॥
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥२२॥
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥२३॥
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः ॥२४॥
ते तु सर्वे महत्मानो भीमवेगा महबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥२५॥
हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥२६॥
ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलांगलधरा नानावृक्षशिलाधराः ॥२७॥
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥२८॥
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनंदन ॥२९॥
रोषेण महताविष्टो हुं कारमकरोत्तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥३०॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥