रामायणम्

एकचत्वारिंशः सर्गः 1.41

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनंदन । नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥१॥

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितृणां गतिमन्विच्छ येन चाश्वोऽपहारितः ॥२॥

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥३॥

अभिवाद्याभिवाद्यांस्त्वां हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥४॥

एवमुक्तो ंऽशुमान् सम्यक्सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥५॥

स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥६॥

देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥७॥

स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितृन् स परिपप्रच्छ वाजिहर्तारमेव च ॥८॥

दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः । आसमंज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥९॥

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१०॥

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥११॥

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१२॥

स दुःखवशमापन्नस्त्वसमंजसुतस्तदा । चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥१३॥

यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१४॥

स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । स जलार्थं महातेजा न चापश्यज्जलाशयम् ॥१५॥

विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितृणां मातुलं राम सुपर्णमनिलोपमम् ॥१६॥

स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१७॥

कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१८॥

गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम् ॥१९॥

भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नमिदं भस्म गंगया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥२०॥

गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ । यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि ॥२१॥

सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महायशाः ॥२२॥

ततो राजानमासाद्य दीक्षितं रघुनंदन । न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥२३॥

तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥२४॥

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः । गंगायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥२५॥

अगत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥२६॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥

Listen to the sarga
0:00