रामायणम्

द्विचत्वारिंशः सर्गः 1.42

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥१॥

स राजा सुमहानासीदंशुमान् रघुनंदन । तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥२॥

तस्मै राज्यं समादिश्य दिलीपे रघुनंदन । हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् ॥३॥

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः । तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥४॥

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥५॥

कथं गंगावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतानिति चिंतापरोऽभवत् ॥६॥

तस्य चिंतयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥७॥

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥८॥

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥९॥

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥१०॥

भगीरथस्तु राजर्षिर्धार्मिको रघुनंदन । अनपत्यो महाराजः प्रजाकामः स च प्रजाः ॥११॥

मंत्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः| तपो दीर्घं समातिष्ठद्गोकर्णे रघुनंदन ॥१२॥

ऊर्ध्वबाहुः पंचतपा मासाहारो जितेन्द्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥१३॥

अतीतानि महाबहो तस्य राज्ञो महात्मनः । सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः ॥१४॥

ततः सुरगणैः सार्धमुपागम्य पितामहः । भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥१५॥

भगीरथ महाराग प्रीतस्तेऽहं जनाधिप । तपसा च सुतप्तेन वरं वरय सुव्रत ॥१६॥

तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाबाहुः कृतांजलिपुटः स्थितः ॥१७॥

यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलस्याप्नुयुः ॥१८॥

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥१९॥

देव याचे ह संतत्यै नावसीदेत्कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥२०॥

उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरं मधुराक्षराम् ॥२१॥

मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥२२॥

इयं हैमवती ज्येष्ठा गंगा हिमवतः सुता । तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् ॥२३॥

गंगायाः पतनं राजन् पृथिवी न सहिष्यते । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥२४॥

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सह सर्वैर्मरुद्गणैः ॥२५॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥

Listen to the sarga
0:00