देवदेवे गते तस्मिन् सोंऽगुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम वत्सरं समुपासत ॥१॥
त्रिचत्वारिंशः सर्गः 1.43
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥२॥
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥३॥
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ॥४॥
आकाशादपतद्राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥५॥
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शंकरम् । तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥६॥
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥७॥
हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ॥८॥
नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबंभ्रमद्देवी संवत्सरगणान्बहून् ॥९॥
तामपश्यन् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनंदन ॥१०॥
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतंसि जज्ञिरे ॥११॥
ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गंगाः शिवजलाः शुभाः ॥१२॥
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥१३॥
सप्तमी चान्वगात्तासां भगीरथरथं तदा । भगीरथोऽपि रजर्षिर्दिव्यं स्यंदनमास्थितः ॥१४॥
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१५॥
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसंघैश्च शिंशुमारगणैस्तथा ॥१६॥
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगंधर्वा यक्षा सिद्धगणास्तथा ॥१७॥
व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तथा ॥१८॥
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुततमं लोके गंगापतनमुत्तमम् ॥१९॥
दिदृक्षवो देवगणाः समीयुरमितौजसः । संपतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥२०॥
शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चंचलैः ॥२१॥
विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥२२॥
शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥२३॥
विनतं क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥२४॥
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः । तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥२५॥
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् । तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥२६॥
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद्वसुधातलम् ॥२७॥
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः । धूतपापाः पुनस्तेन तोयेनाथ शुभान्विता ॥२८॥
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे । मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥२९॥
कृताभिषेको गंगायां बभूव विगतक्लमः । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥३०॥
प्रायादग्रे महातेजास्तं गंगा पृष्ठतोऽन्वगात् । देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥३१॥
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः । सर्पाश्चाप्सरसो राम भगीरथरथानुगाः ॥३२॥
गंगामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गंगा यशस्विनी ॥३३॥
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥३४॥
गङ्गा संप्लावयामास यज्ञवाटं महत्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥३५॥
अपिबत्तु जलं सर्वं गङ्गायाः परमाद्भुतम् । ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः ॥३६॥
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥३७॥
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥३८॥
जगाम च पुनर्गङ्गा भगीरथरथानुगा । सागरं चापि संप्राप्ता सा सरित्प्रवरा तदा ॥३९॥
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः । भगीरथोऽपि रजार्षिर्गङ्गामादाय यत्नतः ॥४०॥
पितामहान् भस्मकृतानपश्यद्गतचेतनः । अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयत् पूतपाप्मानः स्वर्गं प्रप्ता रघूत्तम ॥४१॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥