ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः । विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥१॥
सप्तपंचाशः सर्गः 1.57
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सदक्षिणां दिशं गत्वा महिष्या सह राघव । तताप परमं घोरं विश्वामित्रो महातपाः ॥२॥
फलमूलाशनो दान्तैश्चचार सुमहत्तपः । अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ॥३॥
हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः । पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ॥४॥
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् । जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ॥५॥
अनेन तपसा त्वां हि राजर्षिरिति विद्महे । एवमुक्त्वा महातेजा जगाम सह दैवतैः ॥६॥
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः । विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः ॥७॥
दुःखेन महताविष्टः समन्युरिदमब्रवीत् । तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ॥८॥
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् । एवं निश्चित्य मनसा भूय एव महातपाः ॥९॥
तपश्चचार काकुत्स्थ परमं परमात्मवान् । एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ॥१०॥
त्रिशंकुरिति विख्यात इक्ष्वाकुकुलवर्धनः । तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ॥११॥
गच्छेयं स्वशरीरेण देवानां परमां गतिम् । वसिष्ठं स समाहूय कथयामास चिन्तितम् ॥१२॥
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना । प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ॥१३॥
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः । वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ॥१४॥
त्रिशंकुः सुमहातेजाः शतं परमभास्वरम् । वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः ॥१५॥
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् । अभिवाद्यानुपूर्व्येण ह्रिया किंचिदवाङ्मुखः ॥१६॥
अब्रवीत् स महात्मनः सर्वानेव कृतांजलिः । शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः ॥१७॥
प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना । यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ॥१८॥
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये । शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ॥१९॥
ते मां भवन्तः सिद्ध्यर्थं याजयंतु समाहिताः । सशरीरो यथाहं वै देवलोकमवाप्नुयाम् ॥२०॥
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः । गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन ॥२१॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः । तस्मादनंतरं सर्वे भवन्तो दैवतं मम ॥२२॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तपंचाशः सर्गः ॥