एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥१॥
षट्पंचाशः सर्गः 1.56
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥२॥
क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय । नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥३॥
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् । पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥४॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् । ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥५॥
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । ऐषीकं चापि चिक्षेप रुषितो गाधिनंदनः ॥६॥
मानवं मोहनं चैव गांधर्वं स्वापनं तथा । जृंभणं मादनं चैव संतापनविलापने ॥७॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् । ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥८॥
पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा । दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥९॥
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च । वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥१०॥
शक्तिद्वयं च चिक्षेप कंकालं मुसलं तथा । वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥११॥
त्रिशूलमस्त्रं घोरं च कापालमथ कंकणम् । एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनंदन ॥१२॥
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् । तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१३॥
तेषु शांतेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनंदनः । तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥१४॥
देवर्षयश्च संभ्रांता गंधर्वाः समहोरगाः । त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥१५॥
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा । वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥१६॥
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः । त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥१७॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः । मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥१८॥
प्राज्वलत् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः । विधूम इव कालाग्निर्यमदण्ड इवापरः ॥१९॥
ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् । अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा ॥२०॥
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः । प्रसीद जपतां श्रेष्ठलोकाः सन्तु गतव्यथाः ॥२१॥
एवमुक्तो महातेजाः शमं चक्रे महातपाः । विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥२२॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥२३॥
तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥२४॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्पंचाशः सर्गः ॥