ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् । वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥१॥
पंचपंचाशः सर्गः 1.55
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तस्या हुंकारतो जाताः कांबोजा रविसन्निभाः । ऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः ॥२॥
योनिदेशाच्च यवनाः शकृदेशाच्छकास्तथा । रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ॥३॥
तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् । सपदातिगजं साश्वं सरथं रघुनंदन ॥४॥
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना । विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥५॥
अभ्यधावत् सुसंक्रद्धं वसिष्ठं जपतां वरम् । हुङ्कारेणैव तान् सर्वान् निर्ददाह महानृषिः ॥६॥
ते साश्वरथपादाता वसिष्ठेन महात्मना । भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥७॥
दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः । सव्रीडश्चिंतयाविष्टो विश्वामित्रोऽभवत्तदा ॥८॥
समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥९॥
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः । हतसर्वबलोत्साहो निर्वेदं समपद्यत ॥१०॥
स पुत्रमेकं राज्याय पालयेति नियुज्य च । पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत ॥११॥
स गत्वा हिमवत्पारर्श्वं किंनरोरगसेवितम् । महादेवप्रसादार्थं तपस्तेपे महातपाः ॥१२॥
केनचित्त्वथ कालेन देवेशो वृषभध्वजः । दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥१३॥
किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् । वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् ॥१४॥
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः । प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् ॥१५॥
यदि तुष्टो महादेव धनुर्वेदो ममानघ । साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥१६॥
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु । गंधर्वयक्षरक्षस्सु प्रतिभांतु ममानघ ॥१७॥
तव प्रसादाद्भवतु देवदेव ममेप्सितम् । एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥१८॥
प्राप्य चास्त्राणि देवेशाद्विश्वामित्रो महाबलः । दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा ॥१९॥
विवर्धमानो वीर्येण समुद्र इव पर्वणि । हतं मेने तदा राम वसिष्ठमृषिसत्तमम् ॥२०॥
ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः । यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥२१॥
उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः । दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥२२॥
वसिष्ठस्य च ये शिष्याः ये च वै मृगपक्षिणः । विद्रवन्ति भयाद्भीता नाना दिग्भ्यः सहस्रशः ॥२३॥
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः । मुहूर्तमिव निःशब्दमासीदिरिणसंनिभम् ॥२४॥
वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः । नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥२५॥
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः । विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥२६॥
आश्रमं चिरसंवृद्धं यद्विनाशितवानसि । दुराचारो हि यन्मूढ तस्मात्त्वं न भविष्यसि ॥२७॥
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः । विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥२८॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचपंचाशः सर्गः ॥