कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः । तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥१॥
चतुःपंचाशः सर्गः 1.54
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
नीयमाना तु शबला राम राज्ञा महात्मना । दुःखिता चिन्तयामास रुदंती शोककर्षिता ॥२॥
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना । याहं राजभृतैर्दीना ह्रियेयं भृशदुःखिता ॥३॥
किं मयापकृतं तस्य महर्षेर्भावितात्मनः । यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥४॥
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः । जगाम वेगेन तदा वसिष्ठं परमौजसम् ॥५॥
निर्धूय तां तदा भृत्यान् शतशः शत्रुसूदन । जगामानिलवेगेन पादमूलं महात्मनः ॥६॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् । वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिनिःस्वना ॥७॥
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत । यस्माद्राजभटा मां हि नयन्ते त्वत्सकाशतः ॥८॥
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् । शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् ॥९॥
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया । एष त्वां नयते राजा बलान्मत्तो महाबलः ॥१०॥
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः । बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥११॥
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला । हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥१२॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् । वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥१३॥
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः । ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥१४॥
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः । विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥१५॥
नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम् । तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः ॥१६॥
इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाः । सृजस्वेति तदोवाच बलं परबलार्दनम् ॥१७॥
तस्य तद्वचनं श्रुत्वा सुरभिः सा असृजत्तदा । तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप ॥१८॥
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः । स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ॥१९॥
पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि । विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा ॥२०॥
भूय एवासृजद्घोरान् शकान् यवनमिश्रितान् । तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ॥२१॥
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः । दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ॥२२॥
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः । ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह । तैस्तैर्यवनकांभोजा बर्बराश्चाकुलीकृताः ॥२३॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुःपंचाशः सर्गः ॥