रामायणम्

त्रिपंचाशः सर्गः 1.53

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान् यस्य यस्येप्सितं यथा ॥१॥

इक्षून्मधूंस्तथा लाजान् मैरेयांश्च वरासवान् । पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥२॥

उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः । मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥३॥

नानास्वादुरसानां च खाण्डवानां तथैव च । भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥४॥

सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम् । विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम् ॥५॥

विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत् । सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥६॥

सामात्यो मंत्रिसहितः सभृत्यः पूजितस्तदा । युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥७॥

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः । श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥८॥

गवां शतसहस्रेण दीयतां शबला मम । रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ॥९॥

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज । एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ॥१०॥

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् । नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥११॥

राजन् दास्यामि शबलां राशिभी रजतस्य वा । न परित्यागमर्हेयं मत्सकाशादरिन्दम ॥१२॥

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा । अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ॥१३॥

आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च । स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ॥१४॥

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः । सर्वस्वमेतत्सत्येन मम तुष्टिकरी तथा ॥१५॥

कारणैर्बहुभी राजन्न दास्ये शबलां तव । वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्तदा ॥१६॥

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः । हैरण्यकक्ष्याग्रैवेयान् सुवर्णांकुशभूषितान् ॥१७॥

ददामि कुंजराणां ते सहस्राणि चतुर्दश । हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ॥१८॥

ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् । हयानां देशजातानां कुलजानां महौजसाम् । सहस्रमेकं दश च ददामि तव सुव्रत ॥१९॥

नानावर्णविभक्तानां वयःस्थानां तथैव च । ददाम्येकां गवां कोटिं शबला दीयतां मम ॥२०॥

यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम । तावद्ददामि ते सर्वं दीयतां शबला मम ॥२१॥

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता । न दास्यामीति शबलां प्राह राजन् कथंचन ॥२२॥

एतदेव हि मे रत्नं एतदेव हि मे धनम् । एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥२३॥

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः । एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥२४॥

अतो मूलाः क्रियाः सर्वा मम राजन्न संशयः । बहूना किं प्रलापेन न दास्ये कामदोहिनीम् ॥२५॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिपंचाशः सर्गः ॥

Listen to the sarga
0:00