रामायणम्

1.52

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः । प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥१॥

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना । आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥२॥

उपविष्टाय च तदा विश्वामित्राय धीमते । यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥३॥

प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तमः । तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥४॥

विश्वामित्रो महातेजा वनस्पतिगणे तथा । सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमः ॥५॥

सुखोपविष्टं राजानं विश्वामित्रं महातपाः । पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥६॥

कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रंजयन् । प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक ॥७॥

कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने । कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥८॥

कच्चित् बले च कोशे च मित्रेषु च परंतप । कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ ॥९॥

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् । विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम् ॥१०॥

कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा । मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥११॥

ततो वसिष्ठो भगवान् कथान्ते रघुनंदन । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥१२॥

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल । तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥१३॥

सत्क्रियां तु भवानेतां प्रतीच्छतु मया कृताम् । राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥१४॥

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः । कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया ॥१५॥

फलमूलेन भगवन्विद्यते यत्तवाश्रमे । पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥१६॥

सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः । नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा ॥१७॥

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि । न्यमंत्रयत धर्मात्मा पुनः पुनरुदारधीः ॥१८॥

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह । यथा प्रियं भगवतस्तथास्तु मुनिसत्तम ॥१९॥

एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः । आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥२०॥

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम । सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् । भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥२१॥

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् । तत्सर्वं कामधुक् दिव्ये अभिवर्ष कृते मम ॥२२॥

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् । अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥२३॥

Listen to the sarga
0:00