तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥१॥
एकपंचाशः सर्गः 1.51
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः । रामसंदर्शनादेव परं विस्मयमागतः ॥२॥
एतौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ । शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥३॥
अपि ते मुनिशार्दूल मम माता यशस्विनी । दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥४॥
अपि रामे महातेजो मम माता यशस्विनी । वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥५॥
अपि रामाय कथितं यद् वृत्तं तत्पुरातनम् । मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ॥६॥
अपि कौशिक भद्रं ते गुरुणा मम संगता । माता मम मुनिश्रेष्ठ रामसंदर्शनादितः ॥७॥
अपि मे गुरुणा रामः पूजितः कुशिकात्मज । इहागतो महातेजाः पूजां प्राप्य महात्मनः ॥८॥
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज| इहागतेन रामेण पुजितेनाभिवादितः ॥९॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः । प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यगोविदम् ॥१०॥
नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया । संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥११॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः । शतानन्दो महातेजा रामं वचनमब्रवीत् ॥१२॥
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव । विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥१३॥
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः । विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥१४॥
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन । गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥१५॥
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः । यथा बलं यथा तत्त्वं तन्मे निगदतः शृणु ॥१६॥
राजाऽसीदेष धर्मात्मा दिर्घकालमरिंदमः । धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥१७॥
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः । कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥१८॥
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः । गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥१९॥
विश्वमित्रो महातेजाः पालयामास मेदिनीम् । बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥२०॥
कदाचित्तु महातेजा योजयित्वा वरूथिनीम् । अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥२१॥
नगराणि च राष्ट्रानि सरितश्च तथा गिरीन् । आश्रमान् क्रमशो राजा विचरन्नाजगाम ह ॥२२॥
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम् । नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥२३॥
देवदानवगन्धर्वैः किंनरैरुपशोभितम् । प्रशान्तहरिणाकिर्णं द्विजसंघनिषेवितम् ॥२४॥
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् । तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥२५॥
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः । अब्भक्षैर्वायुभक्षैश्च शिर्णपर्णाशनैस्तथा ॥२६॥
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः - यद्वा - फलमूलाशनैर्दानैर्जिततोषैर्जितेन्द्रियैः । ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ॥२७॥
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् । वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् । ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलम् ॥२८॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकपंचाशः सर्गः ॥