रामायणम्

पंचाशः सर्गः 1.50

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥१॥

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः । साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥२॥

बहूनीह सहस्राणि नानादेशनिवासिनाम् । ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥३॥

ऋषि ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः । देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥४॥

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः । निवेशमकरोद्देशे विविक्ते सलिलायुते ॥५॥

विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा । शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् ॥६॥

प्रत्युज्जगाम सहसा विनयेन समन्वितः । ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ॥७॥

1.50.7 #e457611934cc timing uncertain

विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम् । प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥८॥

पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् । स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥९॥

यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत् । अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥१०॥

आसने भगवानास्तां सहैभिर्मुनिसत्तमैः । जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥११॥

पुरोधा ऋत्विजश्चैव राजा च सह मंत्रिभिः । आसनेषु यथान्यायमुपविष्टान् समन्ततः ॥१२॥

दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् । अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥१३॥

अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया । धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ॥१४॥

यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह । द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः ॥१५॥

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक । इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥१६॥

पुनस्तं परिपप्रच्छ प्रांजलिः प्रयतो नृपः । इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ॥१७॥

गजसिंहगती वीरौ शार्दूलवृषभोपमौ । पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ । अश्विनाविव रूपेण समुपस्थितयौवनौ ॥१८॥

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ । कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥१९॥

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने । भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥२०॥

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः । काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥२१॥

तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः । न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ ॥२२॥

सिद्धाश्रमनिवासं च राक्षसानां वधं तथा । तत्रागमनमव्यग्रं विशालायाश्च दर्शनम् ॥२३॥

अहल्यादर्शनं चैव गौतमेन समागमम् । महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥२४॥

एतत्सर्वं महातेजा जनकाय महात्मने । निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥२५॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचाशः सर्गः ॥

Listen to the sarga
0:00