अफलस्तु ततः शक्रो देवानग्निपुरोगमान् । अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान् ॥१॥
एकोनपंचाशः सर्गः 1.49
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः । क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥२॥
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता । शापमोक्षेण महता तपोऽस्यापहृतं मया ॥३॥
तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाः । सुरकार्यकरं यूयं सफलं कर्तुमर्हथ ॥४॥
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः । पितृदेवानुपेत्याहुः सह सर्वैः मरुद्गणैः ॥५॥
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः । मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥६॥
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति । भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः । अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ॥७॥
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः । उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥८॥
तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः । अफलान् भुंजते मेषान् फलैस्तेषामयोजयन् ॥९॥
इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघव । गौतमस्य प्रभावेन तपसा च महात्मनः ॥१०॥
तदागच्छ महातेज आश्रमं पुण्यकर्मणः । तारयैनां महाभागामहल्यां देवरूपिणीम् ॥११॥
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह ॥१२॥
ददर्श च महाभागां तपसा द्योतितप्रभाम् । लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥१३॥
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव । धूमेनाभिपरीताङ्गीं दीप्तामग्निशिखामिव ॥१४॥
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव । मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥१५॥
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह । त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ॥१६॥
शापस्यान्तमुपागम्य तेषां दर्शनमागता || राघवौ तु ततस्तस्याः पादौ जगृहतुर्मुदा ॥१७॥
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ || पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता । प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥१८॥
पुष्पवृष्टिर्महत्यासीद्देवदुंदुभिनिस्वनैः । गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः ॥१९॥
साधु साध्विति देवास्तामहल्यां समपूजयन् । तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥२०॥
गौतमोऽपि महातेजा अहल्यासहितः सुखी । रामं संपूज्य विधिवत्तपस्तेपे महातपाः ॥२१॥
रामोऽपि परमां पूजां गौतमस्य महामुनेः । सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥२२॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनपंचाशः सर्गः ॥