रामायणम्

अष्टचत्वारिंशः सर्गः 1.48

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे । कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥१॥

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ । गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥२॥

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ । अश्विनाविव रूपेण समुपस्थितयौवनौ ॥३॥

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ । कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥४॥

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् । परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः ॥५॥

किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि । वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥६॥

तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् । सिद्धाश्रमनिवासं च राक्षसानां वधं तथा । विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः ॥७॥

अतिथी परमौ प्राप्तं पुत्रौ दशरथस्य तौ । पूजयामास विधिवत् सत्कारार्हौ महाबलौ ॥८॥

ततः परमसत्कारं सुमतेः प्राप्य राघवौ । उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ॥९॥

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् । साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥१०॥

मिथिलोपवने तत्र आश्रमं दृश्य राघवः । पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् ॥११॥

इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम् । श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः ॥१२॥

तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजा विश्वमित्रो महामुनिः ॥१३॥

हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव । यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना ॥१४॥

गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः । आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः ॥१५॥

स चात्र तप आतिष्ठदहल्यासहितः पुरा । वर्षपूगान्यनेकानि राजपुत्र महायशः ॥१६॥

तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः । मुनिवेषधरो भूत्वाऽहल्यामिदमब्रवीत् ॥१७॥

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते । संगमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥१८॥

मुनिवेषं सहस्राक्षं विज्ञाय रघुनंदन । मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥१९॥

अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना । कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥२०॥

आत्मानं मां च देवेश सर्वदा रक्ष गौतमात् । इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥२१॥

सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् । एवं संगम्य तु तया निश्चक्रामोटजात्ततः ॥२२॥

स संभ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति । गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् ॥२३॥

देवदानवदुर्धर्षं तपोबलसमन्वितम् । तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ॥२४॥

गृहीतसमिधं तत्र सकुशं मुनिपुंगवम् । दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत् ॥२५॥

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः । दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् ॥२६॥

मम रूपं समास्थाय कृतवानसि दुर्मते । अकर्तव्यमिदं यस्मात् विफलस्त्वं भविष्यति ॥२७॥

गौतमेनैवमुक्तस्य स रोषेण महात्मना । पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ॥२८॥

तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान् । इह वर्षसहस्राणि बहूनि निवसिष्यसि ॥२९॥

वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूतानामाश्रमेऽस्मिन् निवत्स्यसि ॥३०॥

यदा त्वेतद्वनं घोरं रामो दशरथात्मजः । आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥३१॥

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥३२॥

एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् । इममाश्रममुत्सृज्य सिद्धचारणसेविते । हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥३३॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥

Listen to the sarga
0:00