रामायणम्

सप्तचत्वारिंशः सर्गः 1.47

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सप्तधा तु कृते गर्भे दितिः परमदुःखिता । सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥१॥

ममापराधाद्गर्भोऽयं सप्तधा शकलीकृतः । नापराधो हि देवेश तवात्र बलसूदन ॥२॥

प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये । मरुतां सप्तसप्तानां स्थानपाला भवन्तु ते ॥३॥

वातस्कंधा इमे सप्त चरन्तु दिवि पुत्रक । मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥४॥

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः । दिव्यवायुरिति ख्यातः तृतीयोऽपि महायशाः ॥५॥

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् । संचरिष्यन्ति भद्रं ते कलेन हि ममात्मजाः ॥६॥

त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः । तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ॥७॥

उवाच प्रांजलिर्वाक्यं दितिं बलनिषूदनः । सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ॥८॥

विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः । एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ॥९॥

जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् । एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ॥१०॥

दितिं यत्र तपःसिद्धामेवं परिचचार सः । इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥११॥

अलंबुषायामुत्पन्नो विशाल इति विश्रुतः । तेन चासीदिह स्थाने विशालेति पुरी कृता ॥१२॥

विशालस्य सुतो राम हेमचन्द्रो महाबलः । सुचन्द्र इति विख्यातो हेमचन्द्रादनंतरः ॥१३॥

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः । धूम्राश्वतनयश्चापि सृंजयः समपद्यत ॥१४॥

सृंजयस्य सुतः श्रीमान् सहदेवः प्रतापवान् । कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥१५॥

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् । सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥१६॥

तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् । आवसत्परमप्रख्यः सुमतिर्नाम दुर्जयः ॥१७॥

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥१८॥

इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम् । श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥१९॥

सुमतिस्तु महातेजा विश्वामित्रमुपागतम् । श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन् महायशाः ॥२०॥

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः । प्रांजलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥२१॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने । संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥२२॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥

Listen to the sarga
0:00