हतेषु तेषु पुत्रेषु दितिः परमदुःखिता । मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ॥१॥
षट्चत्वारिंशः सर्गः 1.46
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः । शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ॥२॥
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि । ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥३॥
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा । प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥४॥
एवं भवतु भद्रं ते शुचिर्भव तपोधने । जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥५॥
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि । पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि ॥६॥
एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् । तमालभ्य ततः स्वस्तीत्युक्त्वा तपसे ययौ ॥७॥
गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता । कुशप्लवं सामासाद्य तपस्तेपे सुदारुणम् ॥८॥
तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह । सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा ॥९॥
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च । न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥१०॥
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥११॥
पूर्णे वर्षसहस्रे तु दशोने रघुनंदन । दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत् ॥१२॥
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर । अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥१३॥
यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम् । त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः ॥१४॥
याचितेन सुरश्रेष्ट पित्रा तव महात्मना । वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥१५॥
इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यन्दिनेश्वरे । निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥१६॥
दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम् । शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥१७॥
तस्याः शरीरविवरं प्रविवेश पुरंदरः । गर्भं च सप्तधा राम चिच्छेद परमात्मवान् ॥१८॥
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा । रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥१९॥
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत । बिभेद च महातेजा रुदन्तमपि वासवः ॥२०॥
न हन्तव्यं न हन्तव्यमित्येवं दितिरब्रवीत् । निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥२१॥
प्रांजलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत । अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा ॥२२॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे । अभिदं सप्तधा देवि तन्मे त्वम् क्षन्तुमर्हसि ॥२३॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥