रामायणम्

एकोनषष्टितमः सर्गः 1.59

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम् ॥१॥

इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुंगव ॥२॥

अहमामंत्रये सर्वान् महर्षीन् पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥३॥

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ॥४॥

हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर । यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥५॥

एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् । व्यादिदेश महाप्राज्ञान्यज्ञसंभारकारणात् ॥६॥

सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह । सर्वानृषिवरान् वत्सा आनयध्वं ममाज्ञया ॥७॥

सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् । यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ॥८॥

तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् । तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ॥९॥

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः । ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ॥१०॥

ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् । श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ॥११॥

सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् । वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ॥१२॥

यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव । क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१३॥

कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः । ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ॥१४॥

कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः । एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः ॥१५॥

वासिष्ठा मुनिशार्दूल सर्वे सह महोदयाः । तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ॥१६॥

क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् । ये दूषयन्त्यदुष्टं मां तपोग्रं समास्थितम् ॥१७॥

भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः । अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ॥१८॥

सप्त जातिशतान्येव मृतपाः सन्तु सर्वशः । श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ॥१९॥

विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् । महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ॥२०॥

दूषितः सर्वलोकेषु निषादत्वं गमिष्यति । प्राणातिपातनिरतो निरनुक्रोशतां गतः ॥२१॥

दीर्घकालं मम क्रोधात् दुर्गतिं वर्तयिष्यति । एतावदुक्त्वा वचनं विश्वामित्रो महातपाः । विरराम महातेजा ऋषिमध्ये महामुनिः ॥२२॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनषष्टितमः सर्गः ॥

Listen to the sarga
0:00