तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान् । ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥
षष्टितमः सर्गः 1.60
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अयमिक्ष्वाकुदायादस्त्रिशंकुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥२॥
स्वेनानेन शरीरेण देवलोकजिगीषया । यथायं स्वशरीरेण देवलोकं गमिष्यति ॥३॥
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह । विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥४॥
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम् । अयं कुशिकदायादो मुनिः परमकोपनः ॥५॥
यदाह वचनं सम्यगेतत् कार्यं न संशयः । अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥६॥
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् । गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥७॥
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत । एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा ॥८॥
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ । ऋत्विजश्चानुपूर्व्येण मंत्रवन्मंत्रकोविदाः ॥९॥
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि । ततः कालेन महता विश्वामित्रो महातपाः ॥१०॥
चकारावाहनं तत्र भागार्थं सर्वदेवताः । नाभ्यागमंस्तदा भागार्थं सर्वदेवताः ॥११॥
ततः कोपसमाविष्टो विश्वमित्रो महामुनिः । स्रुवमुद्यम्य सक्रोधस्त्रिशंकुमिदमब्रवीत् ॥१२॥
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर । एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥१३॥
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप । स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥१४॥
राजन् त्वं तेजसा तस्य सशरीरो दिवं व्रज । उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥१५॥
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा । स्वर्गलोकं गतं दृष्ट्वा त्रिशंकुं पाकशासनः ॥१६॥
सह सर्वैः सुरगणैरिदं वचनमब्रवीत् । त्रिशंको गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥१७॥
गुरुशापहतो मूढ पतभूमिमवाग् शिराः । एवमुक्तो महेन्द्रेण त्रिशंकुरपतत् पुनः ॥१८॥
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् । तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥१९॥
रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् । ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥२०॥
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः । नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ॥२१॥
दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः । सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥२२॥
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिंद्रकः । दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥२३॥
ततः परमसंभ्रान्ताः सर्षिसंघाः सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥२४॥
अयं राजा महाभाग गुरुशापपरिक्षतः । सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥२५॥
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः । अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥२६॥
सशरीरस्य भद्रं वस्त्रिशंकोरस्य भूपतेः । आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे ॥२७॥
स्वर्गोऽस्तु सशरीरस्य त्रिशंकोरस्य शाश्वतः । नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥२८॥
यावल्लोका धरिष्यन्ति तिष्ठन्त्येतानि सर्वशः । यत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥२९॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम् । एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ॥३०॥
गगने तान्यनेकानि वैश्वानरपथाद्बहिः । नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिषु जाज्वलन् ॥३१॥
अवाग् शिरास्त्रिशंकुश्च तिष्ठत्वमरसंनिभः । अनुयास्यन्ति चैतानि ज्यतींषि नृपसत्तमम् ॥३२॥
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा । विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ॥३३॥
ऋषिमध्ये महातेजा बाढमित्याह देवताः । ततो देवा महात्मानो ऋषयश्च तपोधनाः । जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥३४॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षष्टितमः सर्गः ॥