विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन् । अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ॥१॥
एकषष्टितमः सर्गः 1.61
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥२॥
पश्चिमायां विशालायां पुष्करेषु महात्मनः । सुखं तपश्चरिष्यामः परं तद्धि तपोवनम् ॥३॥
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः । तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥४॥
एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान् । अंबरीष इति ख्यातो यष्टुं समुपचक्रमे ॥५॥
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह । प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥६॥
पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥७॥
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥८॥
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ । अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥९॥
देशान् जनपदांस्तांस्तान्नगराणि वनानि च । आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१०॥
स पुत्रसहितं तात सभार्यं रघुनंदन । भृगुतुंगे समासीनमृचीकं संददर्श ह ॥११॥
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च । महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥१२॥
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः । गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥१३॥
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव । सर्वे परिगता देशा यज्ञियं न लभे पशुम् ॥१४॥
दातुमर्हसि मूल्येन सुतमेकमितो मम । एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ॥१५॥
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन । ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥१६॥
उवाच नरशार्दूलमंबरीषमिदं वचः । अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥१७॥
ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो । तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥१८॥
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः । मातॄणां च कनीयांसस्तस्माद्रक्षे कनीयसम् ॥१९॥
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च । शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥२०॥
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् । विक्रेतं मध्यमं मन्ये राजपुत्र नयस्व माम् ॥२१॥
अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः । हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥२२॥
गवां शतसहस्रेण शुनःशेपं नरेश्वरः । गृहीत्वा परमप्रीतो जगाम रघुनंदन ॥२३॥
अंबरीषस्तु राजर्षी रथमारोप्य सत्वरः । शुनःशेपं महातेजा जगामाशु महायशाः ॥२४॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकषष्टितमः सर्गः ॥