रामायणम्

त्रिषष्टितमः सर्गः 1.63

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् । अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥१॥

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः । ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥२॥

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् । विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥३॥

ततः कालेन महता मेनका परमाप्सराः । पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥४॥

तां ददर्श महातेजा मेनकां कुशिकात्मजः । रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥५॥

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् । अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥६॥

अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् । इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥७॥

तपसो हि महाविघ्नो विश्वामित्रमुपागतम् । तस्यां वसन्त्यां वर्षाणि पंच पंच च राघव ॥८॥

विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः । अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥९॥

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः । बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनंदन ॥१०॥

सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत् । अहो रात्रापदेशेन गताः संवत्सरा दश ॥११॥

काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः । विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१२॥

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्रांजलिं स्थिताम् । मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ॥१३॥

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह । स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ॥१४॥

कौशिकीतीरमासाद्य तपस्तेपे दुरासदम् । तस्य वर्षसहस्राणि घोरं तप उपासतः ॥१५॥

उत्तरे पर्वते राम देवतानामभूद्भयम् । आमंत्रयन् समागम्य सर्वे सर्षिगणाः सुराः ॥१६॥

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः । देवतानां वचः श्रुत्वा सर्वलोकपितामहः ॥१७॥

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् । महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ॥१८॥

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक । ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः ॥१९॥

प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् । ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ॥२०॥

यदि मे भगवानाह ततोऽहं विजितेन्द्रियः । तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ॥२१॥

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः । विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥२२॥

ऊर्ध्वबाहुर्निरालंबो वायुभक्षस्तपश्चरन् । धर्मे पंचतपा भूत्वा वर्षास्वाकाशसंश्रयः ॥२३॥

शिशिरे सलिले शायी रात्र्यहानि तपोधनः । एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥२४॥

तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ । संतापः सुमहानासीत् सुराणां वासवस्य च ॥२५॥

रंभामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः । उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥२६॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ॥

Listen to the sarga
0:00