रामायणम्

चतुःषष्टितमः सर्गः 1.64

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सुरकार्यमिदं रंभे कर्तव्यं सुमहत्त्वया । लोभनं कौशिकस्येह काममोहसमन्वितम् ॥१॥

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता । व्रीडिता प्रांजलिर्वाक्यं प्रत्युवाच सुरेश्वरम् ॥२॥

अयं सुरपते घोरो विश्वामित्रो महामुनिः । क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः ॥३॥

ततो हि मे भयं देव प्रसादं कर्तुमर्हसि । एवमुक्तस्तया राम सभयं भीतया तदा ॥४॥

तामुवाच सहस्राक्षो वेपमानां कृतांजलिम् । मा भैषि रंभे भद्रं ते कुरुष्व मम शासनम् ॥५॥

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे । अहं कंदर्पसहितः स्थास्यामि तव पार्श्वतः ॥६॥

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् । तमृषिं कौशिकं रंभे भेदयस्व तपस्विनम् ॥७॥

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् । लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥८॥

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् । संप्रहृष्टेन मनसा स एनामन्वैक्षत ॥९॥

अथ तस्य च शब्देन गीतेनाप्रतिमेन च । दर्शनेन च रंभाया मुनिः संदेहमागतः ॥१०॥

सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः । रंभां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥११॥

यन्मां लोभयसे रंभे कामक्रोधजयैषिणम् । दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥१२॥

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः । उद्धरिष्यति रंभे त्वां मत्क्रोधकलुषीकृताम् ॥१३॥

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः । अशक्नुवन् धारयितुं कोपं संतापमागतः ॥१४॥

तस्य शापेन महता रम्भा शैली तदाभवत् । वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१५॥

कोपेन स महातेजास्तपोऽपहरणे कृते । इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥१६॥

बभूवास्य मनश्चिंता तपोऽपहरणे कृते । नैव क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥१७॥

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि । अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः ॥१८॥

तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् । अनुच्छ्वसन्नभुंजास्तिष्ठेयं शाश्वतीः समाः ॥१९॥

न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः । एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः । चकार प्रतिमां लोके प्रतिज्ञां रघुन्ंदन ॥२०॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ॥

Listen to the sarga
0:00