रामायणम्

पंचषष्टितमः सर्गः 1.65

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः । पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥१॥

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् । चकाराप्रतिमं राम तपः परमदुष्करम् ॥२॥

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् । विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥३॥

स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् । तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥४॥

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम । इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥५॥

तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः । निःषेषितेऽन्ने भगवानभुक्त्वैव महातपाः ॥६॥

न किंचिदवदद्विप्रं मौनव्रतमुपास्थितः । तथैवासीत्पुनः मौनमनुच्छ्वासं चकार ह ॥७॥

अथ वर्षसहस्रं च नोच्छ्वसन्मुनिपुंगवः । तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥८॥

त्रैलोक्यं येन संभ्रांतमातापितमिवाभवत् । ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः ॥९॥

मोहिता तपसा तस्य तेजसा मंदरश्मयः । कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥१०॥

बहुभिः कारणैर्देव विश्वामित्रो महामुनिः । लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ॥११॥

न ह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्यथ । न दीयते यदि त्वस्य मनसा यदभीप्सितम् ॥१२॥

1.65.12 #bb0138f34544 timing uncertain

विनाशयति त्रैलोक्यं तपसा स चराचरम् । व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते ॥१३॥

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः । प्रकंपते च वसुधा वायुर्वातीह संकुलः ॥१४॥

ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः । सम्मूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ॥१५॥

भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा । बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ॥१६॥

तावत्प्रसादो भगवानग्निरूपो महाद्युतिः । कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ॥१७॥

देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् । ततः सुरगणाः सर्वे पितामहपुरोगमाः ॥१८॥

विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् । ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥१९॥

ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक । दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ॥२०॥

स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् । पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम् ॥२१॥

कृत्वा प्रणामं मुदितो व्याजहार महामुनिः । ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ॥२२॥

ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् । क्षत्र वेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ॥२३॥

ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः । यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥२४॥

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः । सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥२५॥

ब्रह्मर्षिस्त्वं न संदेहः सर्वं संपद्यते तव । इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥२६॥

विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् । पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ॥२७॥

कृतकामो महीं सर्वां चचार तपसि स्थितः । एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ॥२८॥

एष राम मुनिश्रेष्ठ एष विग्रहवान् तपः । एष धर्मः परो नित्यं वीर्यस्यैष परायणम् ॥२९॥

एवमुक्त्वा महातेजा विरराम द्विजोत्तमः । शतानंदवचः श्रुत्वा रामलक्ष्मणसंनिधौ ॥३०॥

जनकः प्रांजलिर्वाक्यमुवाच कुशिकात्मजम् । धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ॥३१॥

यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक । पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने ॥३२॥

गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया । विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः ॥३३॥

श्रुतं मया महातेजो रामेण च महात्मना । सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥३४॥

अप्रमेया तपस्तुभ्यमप्रमेयं च ते बलम् । अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥३५॥

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो । कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥३६॥

श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः । स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥३७॥

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् । विससर्जाशु जनकं प्रीतं प्रीतिमांस्तदा ॥३८॥

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः । प्रदक्षिणं चकाराशु सोपाध्यायः सबांधवः ॥३९॥

विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः । स्वं वासमभिचक्राम पूज्यमानो महर्षिभिः ॥४०॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचषष्टितमः सर्गः ॥

Listen to the sarga
0:00