ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥१॥
षट्षष्टितमः सर्गः 1.66
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा । राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥२॥
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ । भवानाज्ञापयतु मामाज्ञाप्यो भवताह्यहम् ॥३॥
एवमुक्तः स धर्मात्मा जनकेन महात्मना । प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥४॥
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ । द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति ॥५॥
एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ । दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥६॥
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् । श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥७॥
देवरात इति ख्यातो निमेः षष्ठो महीपतिः । न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥८॥
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् । रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥९॥
यस्माद्भागार्थिनो भागं नाकल्पयत मे सुराः । वरांगाणि महार्हाणि धनुषा शातयामि वः ॥१०॥
ततो विमनसः सर्वे देवा वै मुनिपुंगव । प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥११॥
प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम् । तदेतद्देवदेवस्य धनूरत्नं महात्मनः ॥१२॥
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभो । अथ मे कृषतः क्षेत्रं लांगलादुत्थिता मम ॥१३॥
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता । भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ॥१४॥
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा । भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ॥१५॥
वरयामासुरागम्य राजानो मुनिपुंगव । तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ॥१६॥
वीर्यशुल्केति भगवन्न ददामि सुतामहम् । ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१७॥
मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा । तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् ॥१८॥
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा । तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ॥१९॥
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन । ततः परमकोपेन राजानो मुनिपुंगव ॥२०॥
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः । आत्मानमवधूतं ते विज्ञाय मुनिपुंगव ॥२१॥
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् । ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ॥२२॥
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः । ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् ॥२३॥
ददुश्च परमप्रीताश्चतुरंगबलं सुराः । ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥२४॥
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः । तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ॥२५॥
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत । यद्यस्य धनुषो रामः कुर्यादारोपणं मुने । सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥२६॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्षष्टितमः सर्गः ॥