जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः । धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥१॥
सप्तषष्टितमः सर्गः 1.67
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततः स राजा जनकः सचिवान् व्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम् ॥२॥
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् । तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः ॥३॥
नृणां शतानि पंचाशद्व्यायतानां महात्मनाम् । मंजूषामष्टचक्रां तां समूहुस्ते कथंचन ॥४॥
तामादाय तु मंजूषामायसीं यत्र तद्धनुः । सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥५॥
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः । मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥६॥
तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत । विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ ॥७॥
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् । राजभिश्च महावीर्यैरशक्तैः पूरितं तदा ॥८॥
नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः । गंधर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥९॥
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे । आरोपणे समायोगे वेपने तोलनेऽपि वा ॥१०॥
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुंगव । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥११॥
विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥१२॥
महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । मंजूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥१३॥
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना । यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥१४॥
बाढमित्येव तं राजा मुनिश्च समभाषत । लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥१५॥
पश्यतां नृसहस्राणां बहूनां रघुनंदनः । आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः ॥१६॥
आरोपयित्वा मौर्वीं च पूरयामास वीर्यवान् । तद्बभंज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥१७॥
तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः । भूमिकंपश्च सुमहान् पर्वतस्येव दीर्यतः ॥१८॥
निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः । व्रजयित्वा मुनिवरं राजानं तौ च राघवौ ॥१९॥
प्रत्याश्वस्तो जने तस्मिन् राजा विगतसाध्वसः । उवाच प्रांजलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् ॥२०॥
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः । अत्यद्भुतमचिन्त्यं चातर्कितमिदं मया ॥२१॥
जनकानां कुले कीर्तिमाहरिष्यति मे सुता । सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥२२॥
मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक । सीता प्राणैर्बहुमता देया रामाय मे सुता ॥२३॥
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छंतु मंत्रिणः । मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥२४॥
राजानं प्रश्रितैर्वाक्यैरानयंतु पुरं मम । प्रदानं वीर्यशुक्लायाः कथयंतु च सर्वशः ॥२५॥
मुनिगुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै । प्रीतियुक्तं तु राजानमानयंतु सुशीघ्रगाः ॥२६॥
कौशिकश्च तथेत्याह राजा चाभाष्य मंत्रिणः । अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् । यथावृत्तं समाख्यातुमानेतुं च नृपं तथा ॥२७॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥