ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हृष्टः सुमंत्रमिदमब्रवीत् ॥१॥
एकोनसप्ततितमः सर्गः 1.69
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् । व्रजंत्वग्रे सुविहिता नानारत्नसमन्विताः ॥२॥
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः । ममाज्ञा समकालं च यानं युग्ममनुत्तमम् ॥३॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । मार्कण्डेयश्च दीर्घायुर्ऋषिः कात्यायनस्तथा ॥४॥
एते द्विजाः प्रयान्त्वग्रे स्यंदनं योजयस्व मे । यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम् ॥५॥
वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी । राजानमृषिभिः सार्धं व्रजंतं पृष्ठतोऽन्वगात् ॥६॥
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् । राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥७॥
ततो राजानमासाद्य वृद्धं दशरथं नृपम् । जनको मुदितो राजा हर्षं च परमं ययौ ॥८॥
उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम् । स्वागतं ते नरश्रेष्ठः दिष्ट्या प्राप्तोऽसि राघव ॥९॥
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् । दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ॥१०॥
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः । दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ॥११॥
राघवैः सह संबंधाद्वीर्यश्रेष्ठैर्महात्मभिः । श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुमर्हसि ॥१२॥
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः । तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ॥१३॥
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् । प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ॥१४॥
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् । तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥१५॥
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः । ततः सर्वे मुनिगणाः परस्परसमागमे ॥१६॥
हर्षेण महता युक्तास्तां निशामवसन् सुखम् । अथ रामो महातेजा लक्ष्मणेन समं ययौ ॥१७॥
विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन् । राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥१८॥
उवास परमप्रीतो जनकेन सुपूजितः । जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् । यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥१९॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥