रामायणम्

सप्ततितमः सर्गः 1.70

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः । उवाच वाक्यं वाक्यज्ञः शतानंदं पुरोहितम् ॥१॥

भ्राता मम महातेजा यवीयानतिधार्मिकः । कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥२॥

वार्या फलकपर्यन्तां पिबन्निक्षुमतीं नदीम् । सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् ॥३॥

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः । प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥४॥

एवमुक्ते तु वचने शतानंदस्य संनिधौ । आगताः केचिदव्यग्रा जनकस्तान् समादिशत् ॥५॥

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः । समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥६॥

सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम् । न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम् ॥७॥

तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः । आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥८॥

स ददर्श महात्मानं जनकं धर्मवत्सलम् । सोऽभिवाद्य शतानंदं जनकं चातिधार्मिकम् ॥९॥

राजार्हं परमं दिव्यमासनं चाध्यरोहत । उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ ॥१०॥

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् । गच्छ मंत्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ॥११॥

आत्मजैः सह दुर्धर्षमानयस्व समंत्रिणम् । औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥१२॥

ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् । अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ॥१३॥

स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् । मंत्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ॥१४॥

सबन्धुरगमत्तत्र जनको यत्र वर्तते । राजा च मंत्रिसहितः सोपाध्यायः सबांधवः ॥१५॥

वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् । विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥१६॥

वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः । विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ॥१७॥

एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् । तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ॥१८॥

उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसाम् । अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥१९॥

तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः । विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ॥२०॥

मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥२१॥

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः । कुक्षेरथात्मजः श्रीमान् विकुक्षिरुपपद्यत ॥२२॥

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् । बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥२३॥

अनरण्यात्पृथुर्जज्ञे त्रिशंकुस्तु पृथोः सुतः । त्रिशंकोरभवत्पुत्रो धुन्धुमारो महायशाः ॥२४॥

धुन्धुमारान्महातेजा युवनाश्वो महारथः । युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ॥२५॥

मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत । सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥२६॥

यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः । भरतात्तु महातेजा असितो नाम जायत ॥२७॥

यस्यैते प्रतिराजान उदपद्यन्त शात्रवः । हैहयास्तालजंघाश्च शूराश्च शशबिंदवः ॥२८॥

तांस्तु स प्रतियुद्ध्यन् वै युद्धे राजा प्रवासितः । हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥२९॥

असितोऽल्पबलो राजा कालधर्ममुपेयिवान् । द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ॥३०॥

एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ । ततः शैलवरे रम्ये बभूवाभिरतो मुनिः ॥३१॥

भार्गवश्च्यवनो नाम हिमवंतमुपाश्रितः । तत्र चैका महाभागा भार्गवं देववर्चसम् ॥३२॥

ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम् । तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥३३॥

स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि । तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः ॥३४॥

महावीर्यो महातेजा अचिरात् संजनिष्यति । गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥३५॥

च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता । पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत ॥३६॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । सह तेन गरेणैव संजातः सगरोऽभवत् ॥३७॥

सगरस्यासमंजस्तु असमंजादथांशुमान् । दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥३८॥

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा । रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥३९॥

कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः । सुदर्शनः शंखणस्य अग्निवर्णः सुदर्शनात् ॥४०॥

शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः । मरोः प्रशुश्रुकस्त्वासीदंबरीषः प्रशुश्रुकात् ॥४१॥

अंबरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः । नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ॥४२॥

नाभागस्य बभूवाजः अजाद्दशरथोऽभवत् । अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥४३॥

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् । इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥४४॥

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप । सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥४५॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥

Listen to the sarga
0:00