एवं ब्रुवाणं जनकः प्रत्युवाच कृतांजलिः । श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥१॥
एकसप्ततितमः सर्गः 1.71
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्निबोध महामुने ॥२॥
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा । निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥३॥
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः । प्रथमो जनको नाम जनकादप्युदावसुः ॥४॥
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः । नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥५॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः । देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥६॥
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान् । महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥७॥
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः । धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः ॥८॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः । प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥९॥
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः । देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥१०॥
महीध्रकसुतो राजा कीर्तिरातो महाबलः । कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥११॥
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत । स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥१२॥
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥१३॥
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः । कुशध्वजं समावेश्य भारं मयि वनं गतः ॥१४॥
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् । भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् ॥१५॥
कस्यचित्त्वथ कालस्य सांकाश्यादगमत्पुरात् । सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥१६॥
स च मे प्रेषयामास शैवं धनुरनुत्तमम् । सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ॥१७॥
तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह । स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥१८॥
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् । सांकाश्ये भ्रातरं शूरमभ्यषिंचं कुशध्वजम् ॥१९॥
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने । ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥२०॥
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै । वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥२१॥
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः । ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥२२॥
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह । पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥२३॥
मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो । फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु । रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् ॥२४॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥