तमुक्तवंतं वैदेहं विश्वामित्रो महामुनिः । उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥१॥
द्विसप्ततितमः सर्गः 1.72
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अचिंत्यान्यप्रमेयाणि कुलानि नरपुंगव । इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥२॥
सदृशो धर्मसंबन्धः सदृशो रूपसंपदा । रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥३॥
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम । भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥४॥
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि । सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥५॥
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः । वरयेम सुते राजंस्तयोरर्थे महात्मनोः ॥६॥
पुत्रा दशरथस्येमे रूपयौवनशालिनः । लोकपालसमाः सर्वे देवतुल्यपराक्रमाः ॥७॥
उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम् । इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥८॥
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा । जनकः प्रांजलिर्वाक्यमुवाच मुनिपुंगवौ ॥९॥
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ । सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् ॥१०॥
एवं भवतु भद्रं वः कुशध्वजसुते इमे । पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥११॥
एकाह्ना राजपुत्रीणां चतसॄणां महामुने । पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥१२॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः । वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥१३॥
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृतांजलिः । उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥१४॥
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा । इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ ॥१५॥
यथा दशरथस्येयं तथाऽयोध्या पुरी मम । प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ ॥१६॥
तथा ब्रुवति वैदेहे जनके रघुनंदनः । राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥१७॥
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ । ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः ॥१८॥
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम् । श्राद्धकर्माणि विधिवत् विधास्येति चाब्रवीत् ॥१९॥
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा । मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥२०॥
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः । प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥२१॥
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः । एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥२२॥
सुवर्णशृंगाः संपन्नाः सवत्साः कांस्यदोहनाः । गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥२३॥
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनंदनः । ददौ गोदानमुद्दिश्य पुत्रा पुत्रवत्सलः ॥२४॥
सु सुतैः कृतगोदानैर्वृतः सः नृपतिस्तदा । लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥२५॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥