रामायणम्

त्रिसप्ततितमः सर्गः 1.73

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् ॥१॥

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः । दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥२॥

केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् । येषां कुशलकामोऽसि तेषां संप्रत्यनामयम् ॥३॥

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः । तदर्थमुपयातोऽहमयोध्यां रघुनंदन ॥४॥

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् । मिथिलामुपयातांस्तु त्वया सह महीपते ॥५॥

त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् । अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥६॥

दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् । ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥७॥

प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् । ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥८॥

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः । भ्रातृभिः सहितो रामः कृतकौतुकमंगलः ॥९॥

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि । वशिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥१०॥

राजा दशरथो राजन् कृतकौतुकमङ्गलैः । पुत्रैर्नरवरश्रेष्ठ दातारमभिकांक्षते ॥११॥

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः संभवन्ति हि । स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥१२॥

इत्युक्तः परमोदारो वसिष्ठेन महात्मना । प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥१३॥

कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते । स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥१४॥

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः । मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ॥१५॥

सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः । अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते ॥१६॥

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा । प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥१७॥

ततो राजा विदेहानां वशिष्ठमिदमब्रवीत् । कारयस्व ऋषे सर्वानृषिभिः सह धार्मिक ॥१८॥

रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो । तथेत्युक्त्वा तु जनकं वशिष्ठो भगवानृषिः ॥१९॥

विश्वामित्रं पुरस्कृत्य शतानंदं च धार्मिकम् । प्रपामध्ये तु विधिवद्वेदीं कृत्वा महातपाः ॥२०॥

अलञ्चकार तां वेदीं गन्धपुष्पैः समंततः । सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः ॥२१॥

अंकुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः । शंखपात्रैः श्रुवैः स्रुग्भिः पात्रैरर्घ्यादिपूजितैः ॥२२॥

लाजपूर्णैश्च पात्रीभिरक्षितैरपि संस्कृतैः । दर्भैः समैः समास्तीर्य विधिवन्मंत्रपूर्वकम् ॥२३॥

अग्निमाधाय तं वेद्यां विधिमंत्रपुरस्कृतम् । जुहावाग्नौ महातेजा वशिष्ठो मुनिपुंगव ॥२४॥

ततः सीतां समानीय सर्वाभरणभूषिताम् । समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥२५॥

अब्रवीज्जनको राजा कौसल्यानंदवर्धनम् । इयं सीता मम सुता सहधर्मचरी तव ॥२६॥

प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना । पतिव्रता महभागा छायेवानुगता सदा ॥२७॥

इत्युक्त्वा प्राक्षिपद्राजा मंत्रपूतं जलं तदा । साधु साध्विति देवानामृषीणां वदतां तदा ॥२८॥

देवदुंदुभिनिर्घोषः पुष्पवर्षो महानभूत् । एवं दत्त्वा सुतां सीतां मंत्रोदकपुरस्कृताम् ॥२९॥

अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः । लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ॥३०॥

प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः । तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥३१॥

गृहाण पाणिं माण्डव्याः पाणिना रघुनंदन । शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः ॥३२॥

श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना । सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः ॥३३॥

पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः । जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ॥३४॥

चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः । अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥३५॥

ऋषींश्चैव महात्मानः सहभार्या रघूद्वहाः । यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् ॥३६॥

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा । दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥३७॥

ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम् । विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥३८॥

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते । त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥३९॥

अथोपकार्यां जग्मुस्ते स दारा रघुनंदनाः । राजाप्यनुययौ पश्यन् सर्षिसंघः सबान्धवः ॥४०॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥

Listen to the sarga
0:00