रामायणम्

चतुःसप्ततितमः सर्गः 1.74

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः । आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् ॥१॥

विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् । आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम् ॥२॥

अथ राजा विदेहानां ददौ कन्याधनं बहु । गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥३॥

कंबलानां च मुख्यानां क्षौमान् कोट्यंबराणि च । हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥४॥

ददौ कन्याशतं तासां दासीदासमनुत्तमम् । हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥५॥

ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम् । दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम् ॥६॥

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः । राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ॥७॥

ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः । गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम् ॥८॥

घोरास्तु पक्षिणो वाचो व्याहरन्ति समंततः । भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥९॥

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत । असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥१०॥

किमिदं हृदयोत्कंपि मनो मम विषीदति । राज्ञो दशरथस्यैतत् श्रुत्वा वाक्यं महानृषिः ॥११॥

उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् । उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ॥१२॥

मृगाः प्रशमयन्त्येते संतापः त्यज्यतामयम् । तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥१३॥

कंपयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान् । तमसा संवृतः सूर्यः सर्वे न वेदिषुर्दिशः ॥१४॥

भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् । वसिष्ठ ऋषयचान्ये राजा च ससुतस्तदा ॥१५॥

ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् । तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥१६॥

ददर्श भीमसंकाशं जटामण्डलधारिणम् । भार्गवं जामदग्न्यं तं राजा राजविमर्दनम् ॥१७॥

कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् । ज्वलंतमिव तेजोभिः दुर्निरीक्ष्यं पृथग्जनैः ॥१८॥

स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् । प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम् ॥१९॥

तं दृष्ट्वा भीमसंकाशं ज्वलंतमिव पावकम् । वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥२०॥

संगता मुनयः सर्वे संजजल्पुरथो मिथः । कच्चित् पितृवधामर्षी क्षत्र ं नोत्सादयिष्यति ॥२१॥

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः । क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥२२॥

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् । ऋषयो राम रामेति मधुरं वाक्यमब्रुवन् ॥२३॥

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् । रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥२४॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥

Listen to the sarga
0:00