रामायणम्

पंचसप्ततितमः सर्गः 1.75

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥१॥

तदद्भुतमचिंत्यं च भेदनं धनुषस्तथा । तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥२॥

तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः । पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥३॥

तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे । द्वंद्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव ॥४॥

तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा । विषण्णवदनो दीनः प्रांजलिर्वाक्यमब्रवीत् ॥५॥

क्षत्ररोषात् प्रशांतस्त्वं ब्राह्मणश्च महातपाः । बालानां मम पुत्राणामभयं दातुमर्हसि ॥६॥

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् । सहस्राक्षे प्रतिज्ञाय शस्त्रं प्रक्षिप्तवानसि ॥७॥

स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् । दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥८॥

मम सर्वविनाशाय संप्राप्तस्त्वं महामुने । न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥९॥

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् । अनादृत्य तु तद्वाक्यं राममेवाभ्यभाषत ॥१०॥

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते । दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥११॥

अनिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे । त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥१२॥

इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः । तदिदं वैष्णवं राम धनुः परपुरञ्जयम् ॥१३॥

समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् । तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१४॥

शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया । अभिप्रायं तु विज्ञाय देवतानां पितामहः ॥१५॥

विरोधं जनयामास तयोः सत्यवतां वरः । विरोधे तु महद्युद्धमभवद्रोमहर्षणम् ॥१६॥

शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः । तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ॥१७॥

हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः । देवैस्तदा समागम्य सर्षिसन्घैः सचारणैः ॥१८॥

याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ । जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ॥१९॥

अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा । धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः ॥२०॥

देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् । इदं च वैष्णवं राम धनुः परपुरञ्जयम् ॥२१॥

ऋचीके भार्गवे प्रादाद्विष्णुः सन्यासमुत्तमम् । ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ॥२२॥

पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः । न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ॥२३॥

अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः । वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् । क्षत्रमुत्सादयन् रोषाज्जातं जातमनेकशः ॥२४॥

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने । यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥२५॥

दत्त्वा महेन्द्रनिलयः तपोबलसमन्वितः । श्रुत्वा तु धनुषो भेदं ततोऽहं द्रुतमागतः ॥२६॥

तदेवं वैष्णवं राम पितृपैतामहं महत् । क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥२७॥

योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् । यदि शक्तोऽसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥२८॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचसप्ततितमः सर्गः ॥

Listen to the sarga
0:00