रामायणम्

षट्सप्ततितमः सर्गः 1.76

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवाद्यंत्रितकथः पितू राममथाब्रवीत् ॥१॥

कृतवानस्मि यत् कर्म श्रुतवानसि भार्गव । अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥२॥

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव । अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥३॥

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् । शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥४॥

आरोप्य स धनू रामः शरं सज्यं चकार ह । जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम् ॥५॥

ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च । तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥६॥

इमां वा त्वद्गतिं राम तपोबलसमार्जितान् । लोकानप्रतिमान्वापि हनिष्यामि यदिच्छसि ॥७॥

न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः । मोघः पतति वीर्येण बलदर्पविनाशनः ॥८॥

वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः । पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः ॥९॥

गंधर्वाप्सरसश्चैव सिद्धचारणकिन्नराः । यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥१०॥

जडीकृते तदा लोके रामे वरधनुर्धरे । निर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत ॥११॥

तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतः । रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥१२॥

काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा । विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥१३॥

सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् । तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१४॥

तमिमां मद्गतिं वीर हन्तुं नार्हसि राघव । मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥१५॥

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया । जहि तान् शरमुख्येन मा भूत् कालस्य पर्ययः ॥१६॥

अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् । धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥१७॥

एते सुरगणाः सर्वे निरीक्षन्ते समागताः । त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥१८॥

न चेयं तव काकुत्स्थ व्रीडा भवितुमर्हति । त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥१९॥

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत । शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥२०॥

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् । रामो दाशरथिः श्रीमान् चिक्षेप शरमुत्तमम् ॥२१॥

स हतान् दृश्य रामेण स्वान् लोकांस्तपसार्जितान् । जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥२२॥

ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा । सुराः सर्षिगणाः रामं प्रशशंसुरुदायुधम् ॥२३॥

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च । ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः ॥२४॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥

Listen to the sarga
0:00