गते रामे प्रशांतात्मा रामो दाशरथिर्धनुः । वरुणायाप्रमेयाय ददौ हस्ते महायशाः ॥१॥
सप्तसप्ततितमः सर्गः 1.77
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन् । पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनंदनः ॥२॥
जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिगिणी । अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥३॥
4,5 रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् । बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥४॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः । पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥५॥
चोदयामास तां सेनां जगामाशु ततः पुरीम् । पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥६॥
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् । राजप्रवेशसुमुखैः पौरैर्मंगलपाणिभिः ॥७॥
संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम् । पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ॥८॥
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः । प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम् ॥९॥
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः । कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१०॥
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः । ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥११॥
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः । मंगलालापनैर्होमैः शोभिताः क्षौमवाससः ॥१२॥
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् । अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥१३॥
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः । कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥१४॥
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः । कस्यचित्त्वथ कालस्य राजा दशरधः सुतम् ॥१५॥
भरतं कैकेयीपुत्रमब्रवीद्रघुनन्दनः । अयं केकयराजस्य पुत्रो वसति पुत्रक ॥१६॥
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव । श्रुत्वा दशरथस्यैतद्भरतः कैकेयीसुतः ॥१७॥
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा । आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकर्मणम् ॥१८॥
मातृश्चापि नरश्रेष्टः शत्रुघ्नसहितो ययौ । युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ॥१९॥
स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह । गते च भरते रामो लक्ष्मणश्च महाबलः ॥२०॥
पितरं देवसंकाशं पूजयामासतुस्तदा । पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥२१॥
चकार रामः सर्वाणि प्रियाणि च हितानि च । मातृभ्यो मातृकार्याणि कृत्वा परमयंत्रितः ॥२२॥
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत । एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥२३॥
रामस्य शीलवृत्तेन सर्वं विषयवासिनः । तेषामतियशा लोके रामः सत्यपराक्रमः ॥२४॥
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः । रामश्च सीतया सार्धं विजहार बहूनृतून् ॥२५॥
मनस्वी तद्गतमानस्य तस्या हृदि समर्पितः । प्रिया तु सीता रामस्य दाराः पितृकृता इति ॥२६॥
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते । तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥२७॥
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा । तस्य भूयो विशेषेण मैथिली जनकात्मजा । देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥२८॥
तया स राजर्षिसुतोऽभिकामया समेयिवानुत्तमराजकन्यया । अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः ॥२९॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥