रामायणम्

2.1

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

गच्छता मातुलकुलं भरतेन तदाऽनघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥१॥

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः । मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२॥

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः । भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥३॥

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ । उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥४॥

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः । स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥५॥

तेषामपि महातेजा रामो रतिकरः पितुः । स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥६॥

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥७॥

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ॥८॥

स हि रूपोपपन्नश्च वीर्यवाननसूयकः । भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥९॥

स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥१०॥

कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥११॥

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥१२॥

बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः । वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥१३॥

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः । अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥१४॥

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्शुचिः ॥१५॥

कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते । मन्यते परया कीर्त्या महत्स्वर्गफलं ततः ॥१६॥

नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा ॥१७॥

अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् । लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥१८॥

स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः । बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥१९॥

सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् । इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२०॥

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२१॥

धर्मकामार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः ॥२२॥

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् । अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२३॥

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः । निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२४॥

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः । यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२५॥

सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च । आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२६॥

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च । अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२७॥

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् । आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥२८॥

धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः । अभियाता प्रहर्ता च सेनानयविशारदः ॥२९॥

अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः । अनसूयो जितक्रोधो न दृप्तो न च मत्सरी । न चावमन्ता भूतानां न च कालवशानुगः ॥३०॥

एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ॥३१॥

बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः । तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः ॥३२॥

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः । तमेवं व्रत्तसंपन्नमप्रधृष्यपराक्रमम् ॥३३॥

लोकपालोपमं नाथमकामयत मेदिनी । एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥३४॥

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः । अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥३५॥

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति । एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते ॥३६॥

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् । वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥३७॥

मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् । यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥३८॥

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः । महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥३९॥

अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् । इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ॥४०॥

शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः । तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥४१॥

निश्चित्य सचिवैः सार्धं युवराजममन्यत । दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥४२॥

संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् । पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥४३॥

लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः । आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥४४॥

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः । नानानगरवास्तव्यान् पृथग्जानपदानपि ॥४५॥

समानिनाय मेदिन्याः प्रधानान्पृथिवीपतीन् । न तु केकयराजानं जनकं वा नराधिपः ॥४६॥

त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् । तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥४७॥

2.1.47 #9c3e7bb55414 timing uncertain

ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः । अथोपविष्टे नृपतौ तस्मिन्परबलार्दने ॥४८॥

ततः प्रविविशुः शेषा राजानो लोकसम्मताः । अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥४९॥

राजानमेवाभिमुखा निषेदुर्नियता नृपाः । स लब्धमानैर्विनयान्वितैर्नृपैः । पुरालयैर्जानपदैश्च मानवैः । उपोपविष्टैर्नृपतिर्वृतो बभौ । सहस्रचक्षुर्भगवानिवामरैः ॥५०॥

इति श्रीमद्रामायणे अयोध्याकाण्डे प्रथमसर्गः ॥

Listen to the sarga
0:00