रामायणम्

११थ् सर्गः 2.11

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तं मन्मथशरैर्विद्धं कामवेगवशानुगम् । उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥१॥

नास्मि विप्रकृता देव केन चिन्नावमानिता । अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२॥

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि । अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥३॥

तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः । कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥४॥

अवलिप्ते न जानासि त्वत्तः प्रियतरो मम । मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥५॥

तेनाजय्येन मुख्येन राघवेण महात्मना । शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥६॥

यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥७॥

आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥८॥

भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे । एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥९॥

बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि । करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥१०॥

सा तदर्थमना देवी तमभिप्रायमागतम् । निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥११॥

तेन वाक्येन संहृष्टा तमभिप्रायमागतम् । व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥१२॥

यथा क्रमेण शपसि वरं मम ददासि च । तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥१३॥

चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः । जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥१४॥

निशाचराणि भूतानि गृहेषु गृहदेवताः । यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥१५॥

सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः । वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥१६॥

इति देवी महेष्वासं परिगृह्यभिशस्य च । ततः परमुवाचेदं वरदं काममोहितम् ॥१७॥

स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे । तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥१८॥

तत्र चापि मया देव यत्त्वं समभिरक्षितः । जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥१९॥

तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् । तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२०॥

तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् । अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२१॥

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः । प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२२॥

ततः परमुवाचेदं वरदं काममोहितम् । वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२३॥

तौ तावदहंद्यैव वक्ष्यामि शृणु मे वचः । अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२४॥

अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् । यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२५॥

तदा दैवासुरे युद्धे तस्य कालोऽय मागतः । नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२६॥

चीराजिनजटाधारी रामो भवतु तापसः । भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२७॥

एष मे परमः कामो दत्तमेव वरं वृणे । अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२८॥

स राजराजो भव स्त्यसंगरः । कुलं च शीलं च हि रक्ष जन्म च । परत्र वासे हि वद्न्त्यनुत्तमं । तपोधनाः सत्यवचो हितं नृणाम् ॥२९॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ११थ् सर्गः ॥

Listen to the sarga
0:00