विदर्शिता यदा देवी कुब्जया पापया भृशम् । तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥१॥
दशम सर्गः 2.10
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी । मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा ॥२॥
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता । नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी ॥३॥
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् । सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥४॥
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा । अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥५॥
संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे । ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥६॥
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे । तया तान्यपविद्धानि माल्यान्याभरणानि च ॥७॥
अशोभयन्त वसुधां नक्षत्राणि यथा नभः । क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥८॥
एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी । आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् ॥९॥
उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् । अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥१०॥
प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी । स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥११॥
पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः । शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् ॥१२॥
वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् । लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥१३॥
दान्तराजत सौवर्णवेदिकाभिस्समायुतम् । नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥१४॥
दान्तराजतसौवर्णैः संवृतं परमासनैः । विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि ॥१५॥
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् । तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥१६॥
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे । स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥१७॥
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च । न ही तस्य पुरा देवी तां वेळामत्यवर्तत ॥१८॥
न च राजा गृहं शून्यं प्रविवेश कदाचन । ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥१९॥
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् । प्रतीहारी त्वथोवाच संत्रस्ता तु कृताञ्जलिः ॥२०॥
देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता । प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥२१॥
विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः । तत्रतां पतितां भूमौ शयानामतथोचिताम् ॥२२॥
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः । स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥२३॥
अपापः पापसङ्कल्पां ददर्श धरणीतले । लतामिव विनिष्कृत्तां पतितां देव तामिव ॥२४॥
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा । मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥२५॥
क्रेणुमिव दिग्धेन विद्धां मृगयुना वने । महागज इन्वारण्ये स्नेहात्परिममर्श ताम् ॥२६॥
परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः । कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥२७॥
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् । देवि केनाभिशप्तासि केन वासि विमानिता ॥२८॥
यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु । भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि । भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥२९॥
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः । सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥३०॥
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् । कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥३१॥
मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् ॥३२॥
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् । दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः ॥३३॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः । न ते किंचिदभिप्रायं व्याहन्तुमहमुत्सहे ॥३४॥
आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि । बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥३५॥
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे । यावदावर्त ते चक्रं तावती मे वसुन्धरा ॥३६॥
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः । वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥३७॥
तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् । ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥३८॥
किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने । तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥३९॥
तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् । तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् ॥४०॥
इत्यार्षे स्रिमद्रामायणे अद्दिकाव्ये अयोध्य काण्दे दशम सर्गः ॥