एवमुक्ता तु कैकेयी कोपेन ज्वलितानना । दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥१॥
नवम सर्गः 2.9
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् । यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२॥
इदं त्विदानीं संपश्य केनोपायेन मन्थरे । भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥३॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी । रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥४॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे । यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥५॥
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे । यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥६॥
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥७॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि । किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥८॥
कथय त्वं ममोपायं केनोपायेन मन्थरे । भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥९॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी । रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥१०॥
तव दैवासुरे युद्धे सहराजर्षिभिः पतिः । अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥११॥
दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति । वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥१२॥
स शम्बर इति ख्यातः शतमायो महासुरः । ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥१३॥
तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् । रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥१४॥
तत्राकरोन्महायुद्धं राजा दशरथ स्तदा । असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥१५॥
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः । तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥१६॥
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने । सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥१७॥
गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना । अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥१८॥
कथैषा तव तु स्नेहान्मनसा धार्यते मया । रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥१९॥
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् । प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२०॥
चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् । प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२१॥
क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते । शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२२॥
मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः । रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२३॥
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः । त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२४॥
न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्| तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२५॥
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः । मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२६॥
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च । दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२७॥
यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् । तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२८॥
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः । व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२९॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च । भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥३०॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् । रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥३१॥
रामप्रव्राजनं चैव देवि याचस्व तं वरम् । एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥३२॥
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति । भरतश्च हतामित्रस्तव राजा भविष्यति ॥३३॥
येन कालेन रामश्च वनात्प्रत्यागमिष्यति । तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥३४॥
सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् । प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥३५॥
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय । अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥३६॥
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् । सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता । कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥३७॥
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठभिधायिनीम् । पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥३८॥
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥३९॥
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् । सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥४०॥
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना । उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥४१॥
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् । परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥४२॥
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे । जघनं तव निर्घुष्टं रशनादामशोभितम् ॥४३॥
जङघे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ । त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी । अग्रतो मम गच्छन्ती राजहंसेव भाससे ॥४४॥
आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥४५॥
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः । तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥४६॥
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते । अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥४७॥
अभिषिक्ते च भरते राघवे च वनं गते । जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥४८॥
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु । मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥४९॥
कारयिष्यामि ते कुब्जे शुभान्यभरणानि च| परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥५०॥
चंद्रमाह्वयमानेन मुखेनाप्रतिमानना| गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥५१॥
तवापि कुब्जायाः सर्वाभरणभूषिताः । पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥५२॥
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् । शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥५३॥
गतोदके सेतुबन्दो न कल्याणि विधीयते । उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय ॥५४॥
तथा प्रोत्साहिता देवी गता मन्थरया सह । क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥५५॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना । अवमुच्य वराराणि शुभान्याभरणानि च ॥५६॥
ततो हेमोपमा तत्र कुब्जावाक्यवशंगता । संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥५७॥
इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि । वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम् ॥५८॥
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥५९॥
अथो पुनस्तां महिषीं महीक्षितो । वचोभिरत्यर्थ महापराक्रमैः । उवाच कुब्जा भरतस्य मातरं । हितं वचो राममुपेत्य चाहितम् ॥६०॥
प्रपत्स्यते राज्यमिदं हि राघवो । यदि ध्रुवं त्वं स सुता च तप्स्यसे । अतो हि कल्याणि यतस्व तत्तथा । यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥६१॥
तथातिविद्धा महिषि तु कुब्जया । समाहता वागिषुभिर्मुहुर्मुहुः । विधाय हस्तौ हृदयेऽतिविस्मिता । श्शंस कुब्जां कुपिता पुनः पुनः ॥६२॥
यमस्य वा मां विषयं गतामितो । निशाम्य कुब्जे प्रतिवेदयिष्यसि । वनं गते वा सुचिराय राघवे । समृद्धकामो भरतो भविष्यति ॥६३॥
अहं हि वै नास्तरणानि न स्रजो । न चन्दनं नाञ्जनपानभोजनम् । न किंचिदिच्छामि न चेह जीवितं । न चेदितो गच्छति राघवो वनम् ॥६४॥
अथैतदुक्त्वा वचनं सुदारुणं । न्धाय सर्वाभरणानि भामिनी । असंवृतामास्तरणेन मेदिनीं । तदाधिशिश्ये पतितेव किन्नरी ॥६५॥
उदीर्णसंरम्भतमोवृतानना । तदावमुक्तोत्तममूल्यभूषणा । नरेन्द्रपत्नी विमना बभूव सा । तमोवृता द्यौरिव मग्नतारका ॥६६॥
इत्यार्षे स्रिमद्रामयणे आदिकाव्ये अयोध्य काण्दे नवम सर्गः ॥