रामायणम्

पञ्चदशः सर्गः 2.15

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः । उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥१॥

अमात्या बल मुख्याः च मुख्या ये निगमस्य च । राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२॥

उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि । अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥३॥

कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्कृतम् । काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥४॥

रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा । गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥५॥

याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च । प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥६॥

ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः । सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥७॥

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा । क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥८॥

2.15.8 #698b9eeb2910 timing uncertain

वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः । चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥९॥

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् । चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥१०॥

सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् । पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥११॥

प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते । अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥१२॥

2.15.12 #c11e4b9aa91d timing uncertain

वादित्राणि च सर्वाणि वन्दिनश्च तथापरे । इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥१३॥

तथाजातीयमादाय राजपुत्राभिषेचन्म् । ते राजवचनात्तत्र समवेता महीपतिम् ॥१४॥

अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् । न पश्यामश्च राजानमुदितश्च दिवाकरः ॥१५॥

यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः । इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥१६॥

अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः । रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् ॥१७॥

पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः । अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥१८॥

राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् । इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥१९॥

सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह । तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२०॥

शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत । सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२१॥

आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् । सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२२॥

वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते । गता भगवती रात्रिरः शिवमुपस्थितम् ॥२३॥

बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् । ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२४॥

दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव । स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२५॥

प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् । राममानय सूतेति यदस्यभिहितो/अनया ॥२६॥

किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते । न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२७॥

इति राजा दशरथः सूतं तत्रान्वशात्पुनः । स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२८॥

निर्जगम नृपावासान्मन्यमानः प्रियं महत् । प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२९॥

हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् । स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥३०॥

अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् । ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥३१॥

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् । महाकवाटपिहितं वितर्दिशतशोभितम् ॥३२॥

काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् । शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥३३॥

मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् । मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥३४॥

गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा । सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥३५॥

सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा । मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥३६॥

चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् । महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥३७॥

मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह । उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥३८॥

उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः । रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥३९॥

महामेघसमप्रख्यमुदग्रं सुविभूषितम् । नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥४०॥

स वाजियुक्तेन रथेन सारथि । र्नराकुलं राजकुलम् विराजयन् । वरूथिना रामगृहाभिपातिना । पुरस्य सर्वस्य मनांसि हर्शयन् ॥४१॥

ततस्समासाद्य महाधनं महत् । प्रहृष्टरोमा स बभूव सारथिः । मृगैर्मयूरैश्च समाकुलोल्बणं । गृहं वरार्हस्य शचीपतेरिव ॥४२॥

स तत्र कैलासनिभाः स्वलंकृताः । प्रविश्य कक्ष्यास्त्रिदशालयोपमाः । प्रियान् वरान् राममते स्थितान् बहून् । व्यपोह्य शुद्धांतमुपस्थितो रथी ॥४३॥

स तत्र शुश्राव च हर्षयुक्ता । रामाभिषेकार्थकृता जनानां । नरेंद्रसूनोरभिमंगळार्थाः । सर्वस्य लोकस्य गिरः प्रहृष्टः ॥४४॥

महेंद्रसद्मप्रतिमं तु वेश्म । रामस्य रम्यं मृगपक्षिजुष्टं । ददर्श मेरोरिव शृंगमुच्चं । विभ्राजमानं प्रभया सुमम्त्रः ॥४५॥

उपस्थितै रञ्जलिकारिभिश्च । सोपायनैर्जानपदैर्जनैश्च । कोट्या परार्धैश्च विमुक्तयानैः । समाकुलं द्वारपदम् ददर्श ॥४६॥

ततो महामेघमहीधराभं । प्रभिन्नमत्यङ्कुशमत्यसह्यम् । रामोपवाह्याम् रुचिरम् ददर्श । शत्रुम्जयं नागमुदग्रकायम् ॥४७॥

स्वलंकृतान् सास्वरथान् सकुम्जरा । नमात्यमुखयांश्च ददर्श वल्लभान् । व्यपोह्य सूतः सहितान्समंततः । समृद्धमंतःपुर माविवेश ह ॥४८॥

2.15.48 #54cd0278a306 timing uncertain

ततोऽद्रिकूटाचलमेघसन्नि भं । महाविमानोपमवेश्मसंयुतम् । अवार्यमाणः प्रविवेश सारथिः । प्रभूतरत्नं मकरो यथार्णवम् ॥४९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥

Listen to the sarga
0:00