स तदंतःपुरद्वारं समतीत्य जनाकुलम् । प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥१॥
षोडश सर्गः 2.16
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः । अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२॥
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वमंकृतान् । ददर्शविष्ठितान् द्वारि स्त्रध्यक्षान् सुसमाहितान् ॥३॥
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । सहसोत्पतिताः सर्वे ह्यसनेभ्यः ससम्भ्रमाः ॥४॥
तानुवाच विनीतात्मा सूतपुत्रः प्ररक्षिणः । क्षिप्रमाख्यात रामाय सुमन्त्रे द्वारि तिष्ठति ॥५॥
ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः । सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥६॥
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः । तत्रैवानाययामास राघवः पियकाम्यया ॥७॥
तं वैश्रवणसंकाशमुपविष्टुं स्वलंकृतम् । ददर्श सूतः पर्यङ्गे ससैवर्णे सोत्तरच्छदे ॥८॥
वराहरुघिराभेण शुचिना च सुगन्धिना । अनुलिप्तं पराघर्येन चन्दनेन परंतपम् ॥९॥
स्थितया पार्श्वतश्चापि वालव्यजनहस्तयास्थितया पार्श्वतश्चापि । उपेतं सीतया भूयः चित्रया शशिनं यथा ॥१०॥
तं तपन्तमिवादित्यम्पपन्नं स्वतेजसा । ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥११॥
प्राञ्जलिः ससुमुखं दृष्ट्वा विहारशयनासने । राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥१२॥
कौसल्या सुप्रभा राम पिता त्वं द्रष्टुमिच्छति । महिष्यापि हि कैकेय्या गम्यताम् तत्र माचिरम् ॥१३॥
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः । ततः सम्मानयाम् सीतामिदमुवाच ह ॥१४॥
देवि देवश्च देवी च समागम्य मदंतरे । मन्त्रेयेते ध्रुवं किंचित् अभिषेचन संहितम् ॥१५॥
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । संचोदयति राजानं मदर्थ मसितेक्षणा ॥१६॥
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी । जननी चार्थकामा मे केकयाधिपतेस्सुता ॥१७॥
दिष्ट्या खलु महाराजो महिष्या प्रियया सह । सुमन्त्रं प्रहिणोद् दूतमर्थकामकरं मम ॥१८॥
यादृशी परिषत् तत्र तादृशो दूताअगतः । ध्रुवमधैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥१९॥
हन्त शिघ्रमितो जत्वा द्रक्ष्यामि च महिपतिम् । सह त्वं परिवारेण सुखमास्स्व रमस्व च ॥२०॥
पतिसम्मानिता सीता भर्तारम्असितक्षणा । आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥२१॥
राज्यं द्विजतिभीर्जुष्टं राजसूयभिषेचनम् । कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२२॥
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् । कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥२३॥
पुर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः । वरुणः पाश्चिमामाशां धनेशस्तुत्तरं दिशम् ॥२४॥
अथ सीतामनुज्ञाप्य कृतकौतुकमगळः । निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२५॥
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । लक्ष्मणंद्वारि सोऽपश्यत् प्रह्वञ्जलिपुटं स्थितम् ॥२६॥
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः । स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२७॥
ततः पावकसंकाशमारुरोह रथोत्तमम् । वैयाघ्रं पुरुष्व्याघो राजितं राजनंदनः ॥२८॥
मेघनादमसम्बाधं मणिहेमविभूशितम् । मुष्णन्तम् इव चक्षूंषि प्रभया मेरुवर्चसम् ॥२९॥
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः । हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥३०॥
प्रययौ तूरमास्थाय राघवो ज्वलितः श्रिया । स पर्जन्य इवाकाशे स्वनवानभिनादयन् ॥३१॥
निकेतान्निर्ययौ श्रिमान् महाभ्रादिव चन्द्रमाः । चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥३२॥
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः । ततो हलहलाशब्दस्तुमुलह् समजायत ॥३३॥
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः । ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥३४॥
अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः । अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥३५॥
खड्गचापधराः शूरा जग्मुराशंसवो जनाः । ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥३६॥
सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि । हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥३७॥
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः । रामं सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥३८॥
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे । नूनं नन्दति ते माता कौसल्या मातृनन्दन ॥३९॥
पश्यन्ती सिद्धयात्रं त्वं पित्र्यं राज्यमुपस्थितम् । सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम् ॥४०॥
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् । तया सुचरितं देव्या पुरा नूनं महत्तपः ॥४१॥
रोहिणीव शशाङ्केन रामसंयोगमाप या । इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥४२॥
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः । स राघवस्त्रत्र तदा प्रलापान् । शुश्राव लोकस्य समागतस्य । आत्माधिकारा विविधाश्च वाचः । प्रहृष्टरूपस्य पुरे जनस्य ॥४३॥
एष श्रियं गच्छति राघवोऽद्य| राजप्रसादातद् विपुलं गमिष्यन् । एते वयम् सर्वसमृद्धकामा| योषामयं नो भविता प्रशास्ता ॥४४॥
लाभो जनस्यास्य यदेष सर्वं| प्रपत्स्यते राष्ट्रमिदं चिराय । न ह्यप्रियं किंचन जातु कश्चित् । पश्येन्न कुःखं मनुजादिपेऽस्मिन् ॥४५॥
स घोषवद्भिश्च हयैः सनागैः । पुरस्सरैः स्वस्तिकसूतमागधैः । महीयमानः प्रवरैश्च वादकैः । अभिष्टुतो वैश्रवणो यथा ययौ ॥४६॥
करेणुमात्ङ्गरथाश्वसंकुलं । महाजनौघैः परिपूर्णचत्वरम् । प्रभूतरत्नं बहुपण्यसंचयं । ददर्श रामो विमलं महापथम् ॥४७॥
इति श्रिमद् ऱमयने षोडश सर्गः ॥