स रमो रथमास्थाय सम्प्रहृष्टसुहृञनः । पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥१॥
सप्तदशः सर्गः 2.17
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अपश्यन्नगरं श्रीमान् नानाजनसमाकुलम् । स गृहैरभ्रसंकाशैः पांडुरैरुपशोभितम् ॥२॥
राजमार्गं ययौ रामो मध्येनगरुधूपितम् । चन्दनानाम् च मुख्यानामगुरूणाम् च संचयैः ॥३॥
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च । अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥४॥
शोभमानसम्बाधं तं राजपथमुत्तमम् । संवृतं विविधैः पुष्पैभ्रुक्ष्यैरुच्चावचैरपि ॥५॥
ददर्श तं राजपथं दिवि देवपतिर्यथा । दध्यक्षतहविर्लाजैर्धूपैरगुरुचंदनैः ॥६॥
नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् । आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् ॥७॥
यथार्हं चापि सम्पूज्य सर्वानेव नारान् ययौं । पितामहैराचरितं तथैव प्रपितामहैः ॥८॥
अध्योपादाय तं मार्गमभिषित्तोऽनुपालय । यथा स्म पोषिताः पित्रा यथा पूर्वैः पितामहैः ॥९॥
ततः सुखतरं सर्वे रामे वत्स्याम राजनि । अलमद्य हि भुक्तेन परमार्थैरलं च नः ॥१०॥
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् । ततो हि न प्रियतरं नान्यत्किंचिद्भविश्यति ॥११॥
यथाभिषेको रामस्य राज्येनामिततेजसः । एताश्चान्याश्च शुहृदामुदासीनः सुभाः कथाः ॥१२॥
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् । नहि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ॥१३॥
नरः रोशवनोत्यपाक्रष्टुमातिक्रान्तोऽपि राघवे । यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥१४॥
निन्दतः सर्वलोकेषु स्वात्माप्येनं विगर्हते । सर्वेषाम् स हि धर्मात्मा वर्णानां कुरुते दयाम् ॥१५॥
चतुर्णां हि वयह्स्थानाम् तेन ते तमनुव्रता । चत्पुष्पथान् देवपथांश्चैत्यांश्चायतनानि च ॥१६॥
प्रदक्षिणं परिहरन् जगाम नृपतेस्सुतः । स राजकुलमासाद्य मेघसंघोपमैः शुभैः ॥१७॥
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः । आवारयद्भिर्गनं विमानैरिव पाण्डुरैः ॥१८॥
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः । तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥१९॥
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् । स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२०॥
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः । स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ॥२१॥
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरुमत्यगात् । तस्मिन् प्रविष्टे पितुर्न्तिकं तदा । जनः स सर्वो मुदितो नृपात्मजे । प्रतीक्षते तस्य पुनः स्म निर्गमम् । यथोदयं चन्द्रमसः सरित्पतिः ॥२२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥