तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने । कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥१॥
2.24
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः । मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् ॥२॥
यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते । कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् ॥३॥
क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् । गुणवान् दयितः राज्ञो राघवो यद् विवास्यते ॥४॥
नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् । लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि ॥५॥
अयम् तु मामात्मभवस्तवादर्शनमारुतः । विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥६॥
चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः । कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः ॥७॥
त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् । प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये ॥८॥
कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति । अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥९॥
तथा निगदितम् मात्रा तत् वाक्यम् पुरुष ऋषभः । श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥१०॥
कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते । भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति ॥११॥
भर्तुः किल परित्यागो नृशंसः केवलम् स्त्रियाः । स भवत्या न कर्तव्यो मनसा अपि विगर्हितः ॥१२॥
यावज् जीवति काकुत्स्थः पिता मे जगती पतिः । शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः ॥१३॥
एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना । तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् ॥१४॥
एवम् उक्तः तु वचनम् रामः धर्मभृताम् वरः । भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥१५॥
मया चैव भवत्या च कर्तव्यम् वचनम् पितुः । राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥१६॥
इमानि तु महा अरण्ये विहृत्य नव पन्च च । वर्षाणि परम प्रीतः स्थास्यामि वचने तव ॥१७॥
एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा । उवाच परम आर्ता तु कौसल्या पुत्र वत्सला ॥१८॥
आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् । नय माम् अपि काकुत्स्थ वनम् वन्यम् मृगीम् यथा ॥१९॥
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया । ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् ॥२०॥
जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च । भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥२१॥
न ह्यनाथा वयं राज्ज्ञा लोकनाथेन धीम ता । भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ॥२२॥
भवतीमनुवर्तेत स हिधर्मरतः सदा । यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥२३॥
श्रमम् न अवाप्नुयात् किंचित् अप्रमत्ता तथा कुरु । दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् ॥२४॥
राज्ञो वृद्धस्य सततम् हितम् चर समाहिता । व्रत उपवास निरता या नारी परम उत्तमा ॥२५॥
भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् । भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् ॥२६॥
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् । शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता ॥२७॥
एष धर्मः पुरा दृष्टः लोके वेदे श्रुतः स्मृतः । अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥२८॥
पूज्याः ते मत् कृते देवि ब्राह्मणाः चैव सुव्रताः । एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी ॥२९॥
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति । प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ॥३०॥
यदि धर्मभृताम् श्रेष्ठो धारयिष्यति जीवितम् । एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा ॥३१॥
कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् । गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक ॥३२॥
विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः । गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो ॥३३॥
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा । प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥३४॥
पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् । कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥३५॥
यस्त्वा संचोदयति मे वच आच्चिद्य राघव । गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः ॥३६॥
नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा । अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः ॥३७॥
यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् । तथा हि रामम् वन वास निश्चितम् । ददर्श देवी परमेण चेतसा । उवाच रामम् शुभ लक्षणम् वचो| बभूव च स्वस्त्ययन अभिकान्क्षिणी ॥३८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्विशःसर्गः ॥