रामायणम्

2.25

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि । चकार माता रामस्य मन्गलानि मनस्विनी ॥१॥

न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम । श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२॥

यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च । सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥३॥

येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥४॥

यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥५॥

पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा । सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥६॥

समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥७॥

पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम । स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥८॥

स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा । ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥९॥

ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः । दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥१०॥

स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः । स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥११॥

सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः । याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥१२॥

स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः । शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥१३॥

द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च । नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥१४॥

अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् । ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥१५॥

कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते । महा वनानि चरतः मुनि वेषस्य धीमतः ॥१६॥

तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा । राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥१७॥

क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् । प्लवगा वृश्चिका दंशा मशकाः चैव कानने ॥१८॥

सरी सृपाः च कीटाः च मा भूवन् गहने तव । महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥१९॥

महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक । नृ मांस भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२०॥

मा च त्वाम् हिंसिषुः पुत्र मया सम्पूजिताः तु इह । आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२१॥

सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक । स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२२॥

सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः । गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२३॥

पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् । अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२४॥

उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन । सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२५॥

ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् । इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२६॥

स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना । ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥२७॥

हावयामास विधिना राममङ्गलकारणात् । घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२८॥

उपसम्पादयामास कौसल्या पमाङ्गना । उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२९॥

हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् । मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥३०॥

वाचयामास रामस्य वने स्वस्त्ययनक्रियाः । ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥३१॥

दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् । यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥३२॥

वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् । यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥३३॥

अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् । अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥३४॥

अदितिर्मङ्गळम् प्रादात् तत्ते भवतु मङ्गळम् । तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥३५॥

यदासीन्मङ्गळम् प्रादात् तत्ते भवतु मङ्गळम् । ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥३६॥

मम्गळानि महाबाहो दिशन्तु शुभवङ्गळाः । इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥३७॥

गन्दांश्चापि समालभ्य राममायतलो चना । ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥३८॥

चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च । उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥३९॥

वाङ्मात्रेण न भावेन वाचा संसज्जमानया । आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥४०॥

अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् । अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥४१॥

पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि । प्रणष्ठदुःखसंकल्पा हर्षविद्योतितानना ॥४२॥

द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् । भद्रासनगतम् राम वनवासादिहागतम् ॥४३॥

द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः । मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥४४॥

पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः । मया अर्चिता देव गणाः शिव आदयो । महर्षयो भूत महा असुर उरगाः । अभिप्रयातस्य वनम् चिराय ते| हितानि कान्क्षन्तु दिशः च राघव ॥४५॥

इति इव च अश्रु प्रतिपूर्ण लोचना| समाप्य च स्वस्त्ययनम् यथा विधि । प्रदक्षिणम् चैव चकार राघवम् । पुनः पुनः च अपि निपीड्य सस्वजे ॥४६॥

तथा तु देव्या स कृत प्रदक्षिणो । निपीड्य मातुः चरणौ पुनः पुनः । जगाम सीता निलयम् महा यशाः । स राघवः प्रज्वलितः स्वया श्रिया ॥४७॥

इति रामयने अयोध्य कान्द पन्चविंसः सर्ग ॥

Listen to the sarga
0:00