रामायणम्

षड्विंशः सर्गः 2.26

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् । कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥१॥

विराजयन् राज सुतः राज मार्गम् नरैः वृतम् । हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२॥

वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी । तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥३॥

देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना । अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥४॥

प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् । प्रहृष्ट जन सम्पूर्णम् ह्रिया किंचित् अवान् मुखः ॥५॥

अथ सीता समुत्पत्य वेपमाना च तम् पतिम् । अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥६॥

ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् । तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥७॥

विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् । आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥८॥

अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव । प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥९॥

न ते शत शलाकेन जल फेन निभेन च । आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥१०॥

व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् । चन्द्र हंस प्रकाशाभ्याम् वीज्यते न तव आननम् ॥११॥

वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ । स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥१२॥

न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः । मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥१३॥

न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः । अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥१४॥

चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः । मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥१५॥

न हस्ती च अग्रतः श्रीमांस् तव लक्षण पूजितः । प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥१६॥

न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन । भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥१७॥

अभिषेको यदा सज्जः किम् इदानीम् इदम् तव । अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥१८॥

इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः । सीते तत्रभवांस् तात प्रव्राजयति माम् वनम् ॥१९॥

कुले महति सम्भूते धर्मज्ञे धर्म चारिणि । शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२०॥

राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे । कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२१॥

तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते । प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२२॥

चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया । पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२३॥

सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् । भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२४॥

ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् । तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२५॥

न अपि त्वम् तेन भर्तव्या विशेषेण कदाचन अनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२६॥

तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् । स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२७॥

अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् । वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२८॥

याते च मयि कल्याणि वनम् मुनि निषेवितम् । व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२९॥

काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि । वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥३०॥

माता च मम कौसल्या वृद्धा सम्ताप कर्शिता । धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥३१॥

वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः । स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥३२॥

भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः । त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥३३॥

विप्रियम् न च कर्तव्यम् भरतस्य कदाचन । स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥३४॥

आराधिता हि शीलेन प्रयत्नैः च उपसेविताः । राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥३५॥

औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः । समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥३६॥

सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी । भरतस्य रता धर्मे सत्यव्रतपरायणा ॥३७॥

अहम् गमिष्यामि महा वनम् प्रिये । त्वया हि वस्तव्यम् इह एव भामिनि । यथा व्यलीकम् कुरुषे न कस्यचित् । तथा त्वया कार्यम् इदम् वचो मम ॥३८॥

इति श्रि मद्रामयणे अयोध्यकाण्डे षड्विंशः सर्गः ॥

Listen to the sarga
0:00