तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् । प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति ॥१॥
त्रिंशः सर्गः 2.38
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तेन तत्र प्रणादेन दुःखितस्स महीपतिः । चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः ॥२॥
स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् । कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति ॥३॥
सुकुमारी च बाला च सततम् च सुखोचिता । नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम ॥४॥
इयम् हि कश्यापकरोति किंचि । त्तपस्विनी राजवरस्य कन्या । या चीरमासाद्य जनस्य मध्ये । स्थिता विसम्ज्ञा श्रमणीव काचित् ॥५॥
चीराण्यसास्या जनकस्य कन्या । नेयम् प्रतिज्ञा मम दत्तपूर्वा । यथासुखम् गच्छतु राजपुत्री । वनम् सम्ग्रा सह सर्वर्त्नैः ॥६॥
अजीवनार्हेण मया नृशंसा । कृता प्रतिज्ञा नियमेन तावत् । त्वया हि बाल्यात् प्रतिपन्नमेतत् । त्न्माम् दहेद् वेणुमिवात्मपुष्पम् ॥७॥
रामेण यदि ते पा पे किंचित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥८॥
मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी । अपकारम् कमिह ते करोति जनकात्मजा ॥९॥
ननु पर्याप्तम् एतत् ते पापे राम विवासनम् । किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः ॥१०॥
प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता । रामम् यदभिषेकाय त्वमिहाअत मब्रवीः ॥११॥
तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि । मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् ॥१२॥
इतीव राजा विलपन्महात्मा । शोकस्य नान्तम् स ददर्श किंचित् । भृशातुरत्वाच्च पपात भूमौ । तेनैव पुत्रव्यसनेन मग्नः ॥१३॥
एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् । अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् ॥१४॥
इयम् धार्मिक कौसल्या मम माता यशस्विनी । वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते ॥१५॥
मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् । अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि ॥१६॥
पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता । माम् हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥१७॥
इमाम् महा इन्द्र उपम जात गर्भिनीम् । तथा विधातुम् जनमीम् मम अर्हसि । यथा वनस्थे मयि शोक कर्शिता । न जीवितम् न्यस्य यम क्षयम् व्रजेत् ॥१८॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे अष्टा त्रिंशः सर्गः ॥