रामायणम्

एकचत्वारिंशः सर्गः 2.45

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् । अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥१॥

निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि । न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२॥

अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः । बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥३॥

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा । कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥४॥

अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव । उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥५॥

या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् । मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥६॥

स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः । करिष्यति यथावद् वः प्रियाणि च हितानि च ॥७॥

ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः । अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥८॥

स हि राज गुणैः युक्तः युव राजः समीक्षितः । अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥९॥

न च तप्येद् यथा च असौ वन वासम् गते मयि । महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥१०॥

यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् । तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥११॥

बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह । चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥१२॥

ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा । वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥१३॥

वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः । निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥१४॥

कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः । यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥१५॥

2.45.15 #415d5912f26b timing uncertain

धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् । उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥१६॥

एवम् आर्त प्रलापांस् तान् वृद्धान् प्रलपतः द्विजान् । अवेक्ष्य सहसा रामः रथात् अवततार ह ॥१७॥

पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः । सम्निकृष्ट पद न्यासो रामः वन परायणः ॥१८॥

द्विजातींस् तु पदातींस् तान् रामः चारित्र वत्सलः । न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥१९॥

गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः । ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२०॥

ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति । द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२१॥

वाजपेय समुत्थानि चत्राणि एतानि पश्य नः । पृष्ठतः अनुप्रयातानि हंसान् इव जल अत्यये ॥२२॥

अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते । एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२३॥

या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी । त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२४॥

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् । वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२५॥

न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः । त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२६॥

याचितः नो निवर्तस्व हंस शुक्ल शिरः रुहैः । शिरोभिर् निभृत आचार मही पतन पांशुलैः ॥२७॥

बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः । तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२८॥

भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च । याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२९॥

अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः । उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥३०॥

निश्चेष्ट आहार संचारा वृक्ष एक स्थान विष्ठिताः । पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥३१॥

एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने । ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥३२॥

ततः सुमन्त्रोऽपि रथाद्विमुच्य । श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् । पीतोदकांस्तोयपरिप्लुताङ्गा । नचारयद्वै तमसाविदूरे ॥३३॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकचत्वारिंशः सर्गः ॥

Listen to the sarga
0:00