रामायणम्

ष्ट्चत्वारिंशः सर्गः 2.46

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः । सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥१॥

इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् । वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२॥

पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः । यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥३॥

अद्य अयोध्या तु नगरी राज धानी पितुर् मम । सस्त्री पुंसा गतान् अस्मान् शोचिष्यति न संशयः ॥४॥

अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः । त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥५॥

पितरम् चानुशोचामि मातरम् च यशस्विनीम् । अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥६॥

भरतः खलु धर्म आत्मा पितरम् मातरम् च मे । धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥७॥

भरतस्य आनृशंसत्वम् संचिन्त्य अहम् पुनः पुनः । न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥८॥

त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् । अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥९॥

अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् । एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥१०॥

एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः । अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥११॥

सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते । प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥१२॥

उपास्यतु शिवाम् संध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् । रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥१३॥

2.46.13 #0ac4d2bfe5af timing uncertain

ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् । रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥१४॥

सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः । कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥१५॥

जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः । सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥१६॥

गो कुल आकुल तीरायाः तमसायाः विदूरतः । अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥१७॥

उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च । अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥१८॥

अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि । वृक्ष मूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥१९॥

यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने । अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२०॥

यावद् एव तु संसुप्ताः तावद् एव वयम् लघु । रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२१॥

अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः । स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि संश्रिताः ॥२२॥

पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः । न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२३॥

अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् । रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२४॥

अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः । गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२५॥

सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः । योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२६॥

अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर । त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२७॥

तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः । शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२८॥

स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् । प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२९॥

मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः । उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥३०॥

मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः । यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥३१॥

रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः । प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥३२॥

तौ सम्प्रयुक्तम् तु रथम् समासित्थौ । तदा ससीतौ रघवंशवर्धनौ । प्रचोदयामास ततस्तुरम्गमान् । स सारथिर्येन पथा तपोवनम् ॥३३॥

ततः समास्थाय रथम् महारथः ससारथिर्धाशरथिर्वनम् ययौ । उदङ्मुखम् तम् तु रथम् चकार स । प्रयाणमाङ्गश्यनिवितदर्शनात् ॥३४॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ष्ट्चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00