प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना । शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥१॥
एकचत्वारिंशः सर्गः 2.47
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः । आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२॥
ते विषादार्तवदना रहितास्तेन धिमता । कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥३॥
धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः । नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥४॥
कथम् नाम महाबाहुः स तथाऽवितथक्रियः । भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥५॥
यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥६॥
इहैव निधनम् यामो महाप्रस्थानमेव वा । रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥७॥
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥८॥
किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद । नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥९॥
सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना । भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥१०॥
निर्यातास्तेन वीरेण सह नित्यम् जितात्मना । विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥११॥
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥१२॥
ततः मार्ग अनुसारेण गत्वा किंचित् क्षणम् पुनः मार्ग नाशात् विषादेन महता समभिप्लुतः ॥१३॥
रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः । किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥१४॥
ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः । अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥१५॥
आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः । आवर्तयन्त त्ऽश्रूणि नयनैः शोकपीडितैः ॥१६॥
एषा रामेण नगरी रहिता नातिशोभते । आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥१७॥
चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् । अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥१८॥
ते तानि वेश्मानि महाधनानि । दुःखेन दुःखोपहता विशन्तः । नैव प्रजज्ञुः स्वजनम् जनम् वा । निरीक्षमाणाः प्रविणष्टहर्षाः ॥१९॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकचत्वारिंशः सर्गः ॥