रामायणम्

पञ्चाशः सर्गः 2.50

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥१॥

आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२॥

निवृत्तवनवासस्त्वामनृणो जगतीपतेः । पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥३॥

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥४॥

अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः । चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥५॥

तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् । विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥६॥

तथा विलपताम् तेषामतृप्तानाम् च राघवः । अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥७॥

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् । अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥८॥

उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥९॥

लक्षणीयान्न रेंद्राणाम् ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥१०॥

मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥११॥

तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् । ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥१२॥

आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥१३॥

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥१४॥

देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् । देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥१५॥

जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥१६॥

क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥१७॥

देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥१८॥

हंस सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् । सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥१९॥

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२०॥

क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् । नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२१॥

व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् । दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२२॥

देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् । प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२३॥

फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा । शिंशुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२४॥

विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् । ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२५॥

2.50.25 #b75d905a53f1 timing uncertain

समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२६॥

ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः । सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२७॥

अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् । सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२८॥

द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२९॥

लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् । उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥३०॥

रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः । रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥३१॥

सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् । वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥३२॥

तत्र राजा गुहो नाम रामस्य आत्म समः सखा । निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥३३॥

स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् । वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥३४॥

ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् । सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥३५॥

तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् । यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥३६॥

ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् । ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् । अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥३७॥

स्वागतम् ते महा बाहो तव इयम् अखिला मही । वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥३८॥

भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् । शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥३९॥

गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥४०॥

अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् । पद्भ्याम् अभिगमाच् चैव स्नेह संदर्शनेन च ॥४१॥

भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् । दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥४२॥

अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च । यत् तु इदम् भवता किंचित् प्रीत्या समुपकल्पितम् । सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥४३॥

कुश चीर अजिन धरम् फल मूल अशनम् च माम् । विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥४४॥

अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् । एतावता अत्र भवता भविष्यामि सुपूजितः ॥४५॥

एते हि दयिता राज्ञः पितुर् दशरथस्य मे । एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥४६॥

अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् । गुहः तत्र एव पुरुषांस् त्वरितम् दीयताम् इति ॥४७॥

ततः चीर उत्तर आसन्गः संध्याम् अन्वास्य पश्चिमाम् । जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥४८॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥४९॥

गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् । अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥५०॥

तथा शयानस्य ततः अस्य धीमतः । यशस्विनो दाशरथेर् महात्मनः । अदृष्ट दुह्खस्य सुख उचितस्य सा । तदा व्यतीयाय चिरेण शर्वरी ॥५१॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे पञ्चाशः सर्गः ॥

Listen to the sarga
0:00